आत्मशब्दात्पक्षद्वयमप्ययुक्तमित्यत आह
शारीरो वेति ।
सद्वितीयत्वेन सेतुशब्दोपपत्तेश्चेत्यर्थः ।
नन्वात्मशब्दो जीवे सम्भवतीत्यत आह
आत्मशब्दश्चेति ।
उपाधिपरिच्छिन्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः । उपक्रमस्थसाधारणायतनस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मनिश्चय इति भावः ।
स्वशब्दादित्यस्यार्थान्तरमाह
क्वचिच्चेति ।
प्रजानामुत्पत्तौ सदेव मूलम् , स्थितावायतनम् , लये प्रतिष्ठेति ब्रह्मवाचिसत्पदेन छान्दोग्ये ब्रह्मण आयतनत्वश्रुतेरत्रापि तथेत्यर्थः ।
अर्थान्तरमाह
स्वशब्देनैवेति ।
'यस्मिन् द्यौः' इति वाक्यात्पूर्वोत्तरवाक्ययोः पुरुषब्रह्मादिशब्देन ब्रह्मसङ्कीर्तनान्मध्येऽपि ब्रह्म ग्राह्यमित्यर्थः । पुरुष इति पूर्ववाक्यम् , ब्रह्मैवेत्युत्तरवाक्यम् , सर्वासु दिक्षु स्थितं सर्वं ब्रह्मैवेत्यर्थः । उत्तरेणोत्तरस्यां दिशि ।
उदाहृतवाक्यस्य सविशेषब्रह्मपरत्वमाशङ्क्य वाक्यं व्याचष्टे
तत्रेत्यादिना ।
सामानाधिकरण्याद्विचित्र आत्मेति सम्बन्धः ।
यस्मिन् सर्वमोतं तमेवैकमित्येवकारैकशब्दाभ्यां निर्विशेषं ज्ञेयमित्युक्त्वा हेत्वन्तरमाह
विकारानृतेति ।
विकारेऽनृते कल्पिते अभिसन्धोऽभिमानो यस्य तस्यानर्थभाक्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः ।
कथं तर्हि सामानाधिकरण्यम् , तत्राह
सर्वं ब्रह्मेति ।
यश्चोरः स स्थाणुरितिवत्यत्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्मत्वविधानाद्बाधनार्थम् , न तु यद्ब्रह्म तत्सर्वमिति नानारसत्वार्थमित्यर्थः ।
तत्र नियामकमाह
स यथेति ।
लवणपिण्डोऽन्तर्बहिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः ।
यद्यपि पारवत्त्वसावयवत्वादिकं मुख्यसेत्वव्यभिचारि तथापि सेतोर्जलादिबन्धनरूपं यद्विधारणं तदेव व्यभिचारित्वेऽपि सेतुपदार्थैकदेशत्वाद्गुणत्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पारवत्त्वादिकमित्याह
अत्रोच्यत इति ।
दृष्टत्वात्तद्ग्रहेऽतिप्रसङ्गमाह
नहीति ।
अत्र श्रुतौ परेणेति शेषः ।
विधारणस्य शब्दार्थत्वं स्फुटयति
षिञिति ।
सिनोति बध्नातीति सेतुपदार्थैकदेशो विधारणमित्यर्थः । तथा चामृतपदस्य भावप्रधानत्वादमृतत्वस्य सेतुर्विधारकं ब्रह्म । अस्यैवामृतत्वं नान्यस्येत्यर्थः ।
यद्वा द्युभ्वाद्याधारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह
अपर इति ।
फलितमाह
तत्र यदुक्तमिति ।
ज्ञाने सेतौ गृहीते सतीत्यर्थः ॥ १ ॥