ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम्; यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यते । मुक्तैरुपसृप्यं मुक्तोपसृप्यम् । देहादिष्वनात्मसु अहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागः, तत्परिभवादौ द्वेषः, तदुच्छेददर्शनाद्भयं मोहश्च — इत्येवमयमनन्तभेदोऽनर्थव्रातः सन्ततः सर्वेषां नः प्रत्यक्षः । तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति । कथम् ? ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इत्युक्त्वा, ब्रवीति — ‘तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३ । २ । ८) इति । ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे — ‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’ (बृ. उ. ४ । ४ । ७) इत्येवमादौ । प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम् । अपि च ‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः’ इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते । तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम् — ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत्’ (बृ. उ. ४ । ४ । २१) इति । तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥

मुक्तैरूपसृप्यं प्रत्यक्त्वेन प्राप्यं यद्ब्रह्म तस्यात्रोक्तेरिति सूत्रार्थः । मुक्तिप्रतियोगिनं बन्धं दर्शयति

देहादिष्विति ।

तद्विपर्ययेणेति ।

उक्तपञ्चक्लेशात्मकबन्धनिवृत्त्यात्मना स्थितमित्यर्थः ।

यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परात्कारणादव्यक्तात्परं पूर्णं स्वयञ्ज्योतिरानन्दं प्रत्यक्त्वेन प्राप्य तिष्ठतीत्याह

तथा विद्वानिति ।

इदं प्रधानादेः किं न स्यादत आह

ब्रह्मणश्चेति ।

अस्य मुमुक्षोः, हृदीति पदेनात्मधर्मत्वं कामानां निरस्तम् । यदा कामनिवृत्तिरथ तदामृतो भवति, मरणहेत्वभावात् । न केवलमनर्थनिवृत्तिः किन्त्वत्र देहे तिष्ठन्नेव ब्रह्मानन्दमश्नुत इत्यर्थः ।

लिङ्गान्तरमाह

अपिचेति ।

धीरो विवेकी तमेवात्मानं विज्ञाय विशुद्दं लक्ष्यपदार्थं ज्ञात्वा वाक्यार्थज्ञानं कुर्यात् । ज्ञानार्थिनो ज्ञानप्रतिबन्धककर्मकाण्डादेर्वैमुख्यमाह

नेति ।

बहूनित्युक्त्या अल्पान्वेदान्तशब्दानङ्गीकरोति । 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्थता । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च' ॥ इत्येतानि वागिन्द्रियस्थानत्वाद्वाक्शब्देनोच्यन्ते । तेषां शोषणमात्रमनात्मशब्दोच्चारणफलं तद्ध्यानान्मनसो ग्लानिमात्रमित्यर्थः ॥ २ ॥