ननु स्थित्येश्वरस्यादनाजीवस्य 'द्वा सुपर्णा' इत्यत्रोक्तावपि ईश्वर आयतनवाक्येन किमर्थं ग्राह्य इत्यत आह
यदि चेश्वर इति ।
अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः, न सर्वज्ञत्वादिविशिष्टः, तस्यात्राप्रतिपाद्यत्वात् । तथा चाप्रतिपाद्यार्थस्याकस्मान्मध्ये वचनासम्भवादाद्यवाक्येन ग्रहणं कार्यमित्यभिसन्धिः ।
तमज्ञात्वा शङ्कते
ननु तवापीति ।
ब्रह्मस्वरूपप्रतिपादनार्थमकस्मादप्रकृतस्यापि लोकप्रसिद्धस्य जीवस्यानुवादसम्भव इति परिहरति
नेति ।
ननु 'द्वा सुपर्णा' इत्यत्र बुद्धिजीवयोरुक्तेः कथमिदं सूत्रमित्यत आह
गुहामिति ।
स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञयोरनुवादेनैक्यं दर्शितमित्यर्थः ।
नन्वत्र जीवेशौ नानुवाद्यौ, पैङ्गिव्याख्याविरोधादतः सूत्रासङ्गतिरित्यत आह
यदापीति ।
तदापि सूत्रस्यासङ्गतिर्नास्तीत्यर्थः ।
अदनवाक्येन बुद्धिमनूद्य स्थितिवाक्येन बुद्ध्यादिविलक्षणशुद्धप्रत्यग्ब्रह्मणो ज्ञेयस्योक्तेर्द्युभ्वादिवाक्ये तदेव ग्राह्यम् , न बुद्ध्युपहितो जीव इति सूत्रसङ्गतिमाह
कथमित्यादिना ।
नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह
यस्त्विति ।
पौनरुक्त्यं शङ्कते
तदेतदिति ।
द्युभ्वादिवाक्यस्य ब्रह्मपरत्वमित्यर्थः ।
समाधत्ते
प्रपञ्चार्थमिति ।
सेतुशब्दव्याख्यानेन भूतयोनेः प्रत्यगात्मत्वस्फुटीकरणार्थमित्यर्थः । तस्मान्मुण्डकोपनिषद्ब्रह्मणि समन्वितेति सिद्धम् ॥ ७ ॥