ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
इदं समामनन्ति — ‘भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।’ (छा. उ. ७ । २३ । १)‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इत्यादि । तत्र संशयः — किं प्राणो भूमा स्यात् , आहोस्वित्परमात्मेति । कुतः संशयः ? भूमेति तावद्बहुत्वमभिधीयते । ‘बहोर्लोपो भू च बहोः’ (पा. सू. ६ । ४ । १५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मरणात् । किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायाम् ‘प्राणो वा आशाया भूयान्’ (छा. उ. ७ । १५ । १) इति सन्निधानात् प्राणो भूमेति प्रतिभाति । तथा ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति । तत्र कस्योपादानं न्याय्यम् , कस्य वा हानमिति भवति संशयः । किं तावत्प्राप्तम् ? प्राणो भूमेति । कस्मात् ? भूयः प्रश्नप्रतिवचनपरम्पराऽदर्शनात् । यथा हि ‘अस्ति भगवो नाम्नो भूयः’ इति, ‘वाग्वाव नाम्नो भूयसी’ इति; तथा ‘अस्ति भगवो वाचो भूयः’ इति, ‘मनो वाव वाचो भूयः’ इति च — नामादिभ्यो हि आ प्राणात् भूयः प्रश्नप्रतिवचनप्रवाहः प्रवृत्तः नैवं प्राणात्परं भूयः प्रश्नप्रतिवचनं दृश्यते — ‘अस्ति भगवः प्राणाद्भूयः’ इति, ‘अदो वाव प्राणाद्भूयः’ इति । प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् — ‘प्राणो वा आशाया भूयान्’ इत्यादिना सप्रपञ्चमुक्त्वा, प्राणदर्शिनश्चातिवादित्वम् ‘अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत’ इत्यभ्यनुज्ञाय, ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति प्राणव्रतमतिवादित्वमनुकृष्य, अपरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यते । कथं पुनः प्राणे भूमनि व्याख्यायमाने ‘यत्र नान्यत्पश्यति’ इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यते — सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापि ‘यत्र नान्यत्पश्यतीति’ एतल्लक्षणम् । तथा च श्रुतिः — ‘न शृणोति न पश्यति’ इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा, ‘प्राणाग्नय एवैतस्मिन्पुरे जाग्रति’ (प्र. उ. ४ । ३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति । यच्चैतद्भूम्नः सुखत्वं श्रुतम् — ‘यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति, तदप्यविरुद्धम् । ‘अत्रैष देवः स्वप्नान्न पश्यत्यथैतस्मिञ्शरीरे सुखं भवति’ (प्र. उ. ४ । ६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात् । यच्च ‘यो वै भूमा तदमृतम्’ (छा. उ. ७ । २४ । १) इति, तदपि प्राणस्याविरुद्धम् । ‘प्राणो वा अमृतम्’ (बृ. उ. १ । ६ । ३) इति श्रुतेः । कथं पुनः प्राणं भूमानं मन्यमानस्य ‘तरति शोकमात्मवित्’ इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ? प्राण एवेहात्मा विवक्षित इति ब्रूमः । तथाहि — ‘प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः’ (छा. उ. ७ । १५ । १) इति प्राणमेव सर्वात्मानं करोति, ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्’ इति च सर्वात्मत्वारनाभिनिदर्शनाभ्यां च सम्भवति वैपुल्यात्मिका भूमरूपता प्राणस्य । तस्मात्प्राणो भूमेत्येवं प्राप्तम् ॥

भूमा । छान्दोग्यमुदाहरति

इदमिति ।

नाल्पे सुखमस्ति भूमैव सुखम् , तस्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं प्रति सनत्कुमारेणोक्ते सति नारदो ब्रूते

भूमानमिति ।

भूम्नो लक्षणमद्वितीयत्वमाह

यत्रेति ।

भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति

अथेति ।

अत्र संशयबीजं प्रश्नपूर्वकमाह

कुत इत्यादिना ।

बहोर्भाव इति विग्रहे 'पृथ्वादिभ्य इमनिच्' इतीमन्प्रत्यये कृते 'बहोर्लोपो भू च बहोः' इति सूत्रेण बहोः परस्येमनिच्प्रत्ययस्यादेरिकारस्य लोपः स्यात् , बहोः स्थाने भूरित्यादेशश्च स्यादित्युक्तेर्भूमन्निति शब्दो निष्पन्नः । तस्य भावार्थकेमन्प्रत्ययान्तत्वाद्बहुत्वं वाच्यम् । तत्किन्धर्मिकमित्याकाङ्क्षायां संनिहितप्रकरणस्थः प्राणो धर्मो भाति । वाक्योपक्रमस्थ आत्मापि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति संनिहितव्यवहितप्रकरणाभ्यां संशय इत्यर्थः ।

पूर्वमात्मशब्दात्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तम् , तदयुक्तम् , 'तरति शोकमात्मवित्' इत्यब्रह्मण्यप्यात्मशब्दप्रयोगादित्याक्षेपसङ्गत्या पूर्वपक्ष्यति

प्राणो भूमेति ।

धर्मधर्मिणोरभेदात्सामानाधिकरण्यं दृष्टव्यम् । पूर्वोत्तरपक्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् ।

अत्राध्याये भूयः प्रश्नोत्तरभेदादर्थभेदो दृश्यते । भूमा तु प्राणात्परं भूयःप्रश्नं विनैवोक्तलिङ्गेन प्राणादभिन्न इत्याह

कस्मादित्यादिना ।

प्राणाद्भूय इति न दृश्यत इति पूर्वेण सम्बन्धः ।

ननु 'एष तु वा अतिवदति' इति तुशब्देन प्राणप्रकरणविच्छेदान्न प्राणो भूमेत्यत आह

प्राणमेवेति ।

नामाद्याशान्तानुपास्यानतीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद्तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात् , नाहमतिवादीत्यपह्नवं न कुर्यादित्युक्तम् । प्राणविदमेष इति परामृश्य सत्यवचनध्यानमननश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः । तुशब्दो नामाद्युपासकस्यातिवादित्वनिरासार्थ इत्यर्थः ।

भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयति

कथं पुनरित्यादिना ।

प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः । 'गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचन आहवनीयः प्राणः' इति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठन्तीत्यर्थः । देवो जीवः । अथ तदा स्वप्नादर्शनकाले सुखश्रवणात्प्राणस्य सुखत्वमविरुद्धमित्यन्वयः ।

आत्मपदेनोपक्रमविरोधं परिहरति

प्राण एवेति ।

प्राणस्यात्मत्वं कथमित्याशङ्क्य श्रुतत्वादित्याह

तथा हीति ।

सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः । अत आत्मत्वं प्राणेपि मुख्यमिति भावः ।

भूमरूपत्वं योजयति -

सर्वात्मत्वेति ।