भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह
धर्मेति ।
सूत्रम् ।
यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदनूद्य विघटयति
योऽप्यसावित्यादिना ।
सति बुद्ध्याद्युपाधावात्मनो द्रष्टृत्वादिः, तदभावे सुषुप्तौ तदभाव इत्यसङ्गत्वज्ञानार्थं प्रश्नोपनिषदि 'न शृणोति न पश्यति' इति परमात्मानं प्रकृत्योक्तम् । तथा तत्रैवात्मनः सुखत्वमुक्तं न प्राणस्य । यतः श्रुत्यन्तरमात्मन एव सुखत्वमाह तस्मादित्यर्थः । आमयो नाशादिदोषः तत्सहितं सामयम् । आर्तं नश्वरम् । 'स एवाधस्तात्स उपरिष्टात्' इति सर्वगतत्वम् , 'स एवेदं सर्वम्' इति सर्वात्मत्वं च श्रुतम् , तस्माद्भूमाध्यायो निर्गुणे समन्वित इति सिद्धम् ॥ ९ ॥