ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सा च प्रशासनात् ॥ ११ ॥
स्यादेतत् — कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकारणवादिनोऽपीयमुपपद्यते । कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति ? अत उत्तरं पठति —

आकाशं भूतं कृत्वा शङ्कते

स्यादेतदिति ।