ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
दहर उत्तरेभ्यः ॥ १४ ॥
अत उत्तरं ब्रूमः — परमेश्वर एवात्र दहराकाशो भवितुमर्हति, न भूताकाशो जीवो वा । कस्मात् ? उत्तरेभ्यः वाक्यशेषगतेभ्यो हेतुभ्यः । तथाहि — अन्वेष्टव्यतयाभिहितस्य दहरस्याकाशस्य ‘तं चेद्ब्रूयुः’ इत्युपक्रम्य ‘किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्’ इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति — ‘स ब्रूयाद्यावान्वा’ (छा. उ. ८ । १ । २) ‘अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’ (छा. उ. ८ । १ । ३) इत्यादि । तत्र पुण्डरीकदहरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यते । यद्यप्याकाशशब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवति । नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः सम्भवतीत्युक्तम् । नैवं सम्भवति । अगतिका हीयं गतिः, यत्काल्पनिकभेदाश्रयणम् । अपि च कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत । ननु परमेश्वरस्यापि ‘ज्यायानाकाशात्’ (श. ब्रा. १० । ६ । ३ । २) इति श्रुत्यन्तरात् नैवाकाशपरिमाणत्वमुपपद्यते । नैष दोषः; पुण्डरीकवेष्टनप्राप्तदहरत्वनिवृत्तिपरत्वाद्वाक्यस्य न तावत्त्वप्रतिपादनपरत्वम् । उभयप्रतिपादने हि वाक्यं भिद्येत । न च कल्पितभेदे पुण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तः समाधानमुपपद्यते । ‘एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’ इति चात्मत्वापहतपाप्मत्वादयश्च गुणा न भूताकाशे सम्भवन्ति । यद्यप्यात्मशब्दो जीवे सम्भवति, तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति । न ह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुम् । ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत्; यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत, तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादि विवक्ष्यतामिति युक्तम् । यदप्युक्तम् — ‘ब्रह्मपुरम्’ इति जीवेन पुरस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्विति । अत्र ब्रूमः — परस्यैवेदं ब्रह्मणः पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात् । तस्याप्यस्ति पुरेणानेन सम्बन्धः, उपलब्ध्यधिष्ठानत्वात् — ‘स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ (प्र. उ. ५ । ५) ‘स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः’ (बृ. उ. २ । ५ । १८) इत्यादिश्रुतिभ्यः । अथवा जीवपुर एवास्मिन् ब्रह्म सन्निहितमुपलक्ष्यते, यथा सालग्रामे विष्णुः सन्निहित इति, तद्वत् । ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इति च कर्मणामन्तवत्फलत्वमुक्त्वा, ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति’ इति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं वदन् , परमात्मत्वमस्य सूचयति । यदप्येतदुक्तम् — न दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं च श्रुतं परविशेषणत्वेनोपादानादिति; अत्र ब्रूमः — यद्याकाशो नान्वेष्टव्यत्वेनोक्तः स्यात् ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इत्याद्याकाशस्वरूपप्रदर्शनं नोपपद्येत । नन्वेतदप्यन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव प्रदर्श्यते, ‘तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्’ इत्याक्षिप्य परिहारावसरे आकाशौपम्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहितत्वदर्शनात् । नैतदेवम्; एवं हि सति यदन्तःसमाहितं द्यावापृथिव्यादि, तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात् । तत्र वाक्यशेषो नोपपद्येत । ‘अस्मिन्कामाः समाहिताः’ ‘एष आत्मापहतपाप्मा’ इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्’ इति समुच्चयार्थेन चशब्देनात्मानं कामाधारम् आश्रितांश्च कामान् विज्ञेयान् वाक्यशेषो दर्शयति । तस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते । स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति ॥ १४ ॥

अपहतपाप्मत्वादिलिङ्गोपेतात्मकश्रुत्या केवलाकाशश्रुतिर्बाध्येति सिद्धान्तयति

परमेश्वर इत्यादिना ।

आकाशस्याक्षेपपूर्वकमिति सम्बन्धः । तमाचार्यं प्रति यदि ब्रूयुः, हृदयमेव तावदल्पं तत्रत्याकाशोऽल्पतरः किं तदत्राल्पे विद्यते यद्विचार्य ज्ञेयमिति, तदा स आचार्यो ब्रूयादाकाशस्याल्पतानिवृत्तिमित्यर्थः ।

वाक्यस्य तात्पर्यमाह

तत्रेति ।

निवर्तयति । आचार्य इति शेषः ।

नन्वाकाशशब्देन रूढ्या भूताकाशस्य भानात्कथं तन्निवृत्तिरित्याशङ्क्याह

यद्यपीति ।

ननु 'रामरावणयोर्युद्धं रामरावणयोरिव' इत्यभेदेऽप्युपमा दृष्टेतिचेत् , न अभेदे सादृश्यस्यानन्वयेन युद्धस्य निरूपमत्वे तात्पर्यादयमनन्वयालङ्कार इति काव्यविदः ।

पूर्वोक्तमनूद्य निरस्यति

नन्वित्यादिना ।

'सीताश्लिष्ट इवाभाति कोदण्डप्रभया युतः' इत्यादौ प्रभायोगसीताश्लेषरूपविशेषणभेदाद्भेदाश्रयणमेकस्यैव श्रीरामस्योपमानोपमेयभावसिद्ध्यर्थमगत्या कृतमित्यनुदाहरणं द्रष्टव्यम् । नैवमत्राश्रयणं युक्तम् । वाक्यस्याल्पत्वनिवृत्तिपरत्वेन गतिसद्भावात् ।

किञ्च हार्दाकाशस्यान्तरत्वात्यागे अल्पत्वेन व्यापकबाह्याकाशसादृश्यं न युक्तमित्याह

अपिचेति ।

आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमिति भावः ।

ननु हार्दाकाशस्याल्पत्वनिवृत्तौ तावत्त्वे च तात्पर्यं किं न स्यादित्यत आह

उभयेति ।

अतोऽल्पावनिवृत्तावेव तात्पर्यमिति भावः ।

एवमाकाशोपमितत्वाद्दहराकाशो न भूतमित्युक्तम् । सर्वाश्रयत्वादिलिङ्गेभ्यश्च तथेत्याह

नचेत्यादिना ।

विगता जिघत्सा जग्धुमिच्छा यस्य सोऽयं विजिघत्सः । बुभुक्षाशून्य इत्यर्थः ।

प्रथमश्रुतब्रह्मशब्देन तत्सापेक्षचरमश्रुतषष्ठीविभक्त्यर्थः सम्बन्धो नेयः, न तु ब्रह्मणः पुरमिति षष्ठ्यर्थः स्वस्वामिभावो ग्राह्यः 'निरपेक्षेण तत्सापेक्षं बाध्यम्' इति न्यायादित्याह

अत्र ब्रूम इति ।

शरीरस्य ब्रह्मण तदुपलब्धिस्थानत्वरूपे सम्बन्धे मानमाह

स इति ।

पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः ।

ननु ब्रह्मशब्दस्य जीवेऽप्यन्नादिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठ्यर्थः कथञ्चिन्नेय इत्यत आह

अथवेति ।

बृंहयति देहमिति ब्रह्म जीवः तत्स्वामिके पुरे हृदयं ब्रह्मवेश्म भवतु, राजपुरे मैत्रसद्भावदित्यर्थः ।

अनन्तफललिङ्गादपि दहरः परमात्मेत्याह

तद्यथेति ।

अथ कर्मफलाद्वौराग्यानन्तरमिह जीवदशायामात्मानं दहरं तदाश्रितांश्च सत्यकामादिगुणानाचार्योपदेशमनुविद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां सर्वलोकेष्वनन्तमैश्वर्यं स्वेच्छया सञ्चलनादिकं भवतीत्यर्थः ।

दहरे उक्तलिङ्गान्यन्यथासिद्धानि तेषां तदन्तःस्थगुणत्वादियुक्तं स्मारयित्वा दूषयति

यदपीत्यादिना ।

उत्तरत्राकाशस्वरूपप्रतिपादनान्यथानुपपत्त्या पूर्वं तस्यान्वेष्यत्वादिकमित्यत्रान्यथोपपत्तिं शङ्कते

नन्विति ।

एतत् आकाशस्वरूपम् । आक्षेपबीजमाकाशस्याल्पत्वमुपमया निरस्यान्तःस्थवस्तूक्तेस्तदन्तःस्थमेव ध्येयमित्यर्थः ।

तर्हि जगदेव ध्येयं स्यादित्याह

नैतदेवमिति ।

अस्तु को दोषः, तत्राह

तत्रेति ।

सर्वनामभ्यां दहराकाशमाकृष्यात्मत्वादिगुणानुक्त्वा गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रूते तद्विरोध इत्यर्थः ।

'तस्मिन् यदन्तः'इति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह

तस्मादिति ।

यद्वा आकाशस्तस्मिन् यदन्तस्तदुभयमन्वेष्टव्यमिति योजनां सूचयति

सहान्तःस्थैरिति ॥ १४ ॥