ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥
दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम् । त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्ते । इतश्च परमेश्वर एव दहरः; यस्माद्दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः — ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८ । ३ । २) इति । तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीयमाना दहरस्य ब्रह्मतां गमयति । तथा ह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इत्येवमादौ । लोकेऽपि किल गाढं सुषुप्तमाचक्षते ‘ब्रह्मीभूतो ब्रह्मतां गतः’ इति । तथा ब्रह्मलोकशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशशङ्कां निवर्तयन्ब्रह्मतामस्य गमयति । ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत् । गमयेद्यदि ब्रह्मणो लोक इति षष्ठीसमासवृत्त्या व्युत्पाद्येत । सामानाधिकरण्यवृत्त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति । एतदेव चाहरहर्ब्रह्मलोकगमनं दृष्टं ब्रह्मलोकशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम् । न ह्यहरहरिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम् ॥ १५ ॥

दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह

गतीति ।

प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः ।

नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमायातमित्यशङ्क्य 'तथा हि दृष्टम्' इति व्याचष्टे

तथा हीति ।

लोकेऽपि दृष्टमित्यर्थान्तरमाह

लोकेऽपीति ।

गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे

तथेति ।

जीवभूताकाशयोर्ब्रह्मलोकशब्दस्याप्रसिद्धेरिति भावः ।

ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते

नन्विति ।

निषादस्थपतिन्यायेन समाधत्ते

गमयेदिति ।

षष्ठे चिन्तितम् स्थपतिर्निषादः, शब्दसामर्थ्यात् । रौद्रीमिष्टिं विधाय 'एतया निषादस्थपतिं याजयेत्' इत्याम्नायते । तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्निविद्यादिसामर्थ्यात् । न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः । निषाद एव स्थपतिः स्यात् , निषादशब्दस्य निषादे शक्तत्वात् , तस्याश्रुतषष्ठ्यर्थसम्बन्धलक्षकत्वकल्पनायोगात्श्रुतद्वितीयाविभक्तेः पूर्वपदसम्बन्धकल्पनायां लाघवात् , अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति । तद्वद्ब्रह्मलोकशब्दे कर्मधारय इत्यर्थः ।

कर्मधारये लिङ्गं चास्तीति व्याचष्टे

एतदेवेति ।

सूत्रे चकार उक्तन्यायसमुच्चयार्थः ॥ १५ ॥