दहराकाशस्य ब्रह्मत्वे हेत्वन्तरमाह
गतीति ।
प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः ।
नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वेऽपि ब्रह्मत्वे किमायातमित्यशङ्क्य 'तथा हि दृष्टम्' इति व्याचष्टे
तथा हीति ।
लोकेऽपि दृष्टमित्यर्थान्तरमाह
लोकेऽपीति ।
गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे
तथेति ।
जीवभूताकाशयोर्ब्रह्मलोकशब्दस्याप्रसिद्धेरिति भावः ।
ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते
नन्विति ।
निषादस्थपतिन्यायेन समाधत्ते
गमयेदिति ।
षष्ठे चिन्तितम् स्थपतिर्निषादः, शब्दसामर्थ्यात् । रौद्रीमिष्टिं विधाय 'एतया निषादस्थपतिं याजयेत्' इत्याम्नायते । तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्निविद्यादिसामर्थ्यात् । न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः । निषाद एव स्थपतिः स्यात् , निषादशब्दस्य निषादे शक्तत्वात् , तस्याश्रुतषष्ठ्यर्थसम्बन्धलक्षकत्वकल्पनायोगात्श्रुतद्वितीयाविभक्तेः पूर्वपदसम्बन्धकल्पनायां लाघवात् , अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति । तद्वद्ब्रह्मलोकशब्दे कर्मधारय इत्यर्थः ।
कर्मधारये लिङ्गं चास्तीति व्याचष्टे
एतदेवेति ।
सूत्रे चकार उक्तन्यायसमुच्चयार्थः ॥ १५ ॥