ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दादेव प्रमितः ॥ २४ ॥
परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति । कस्मात् ? शब्दात् — ‘ईशानो भूतभव्यस्य’ इति । न ह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ्कुशमीशिता । ‘एतद्वै तत्’ इति च प्रकृतं पृष्टमिहानुसन्दधाति । एतद्वै तत् , यत्पृष्टं ब्रह्मेत्यर्थः । पृष्टं चेह ब्रह्म — ‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति । शब्दादेवेति — अभिधानश्रुतेरेव — ईशान इति परमेश्वरोऽयं गम्यत इत्यर्थः ॥ २४ ॥

भूतभव्यस्वेत्युपपदाद्बाधकाभावाच्च ईशान इतीशत्वशब्दान्निरङ्कुशमीशिता भातीति श्रुत्या लिङ्गं बाध्यमिति सिद्धान्तयति

परमात्मैवेति ।

प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह

एतदिति ।

शब्दो वाक्यं लिङ्गाद्दुर्बलमित्याशङ्क्याहशब्दादिति ॥ २४ ॥