ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तम्; तत्प्रसङ्गेनेदमुच्यते । बाढम् , मनुष्यानधिकरोति शास्त्रम् । न तु मनुष्यानेवेति इह ब्रह्मज्ञाने नियमोऽस्ति । तेषां मनुष्याणाम् उपरिष्टाद्ये देवादयः, तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यते । कस्मात् ? सम्भवात् । सम्भवति हि तेषामप्यर्थित्वाद्यधिकारकारणम् । तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि सम्भवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम् । तथा सामर्थ्यमपि तेषां सम्भवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् । न च तेषां कश्चित्प्रतिषेधोऽस्ति । न चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात् , तेषां च स्वयंप्रतिभातवेदत्वात् । अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति — ‘एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास’ (छा. उ. ८ । ११ । ३) ‘भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म’ (तै. उ. ३ । १ । १) इत्यादि । यदपि कर्मस्वनधिकारकारणमुक्तम् — ‘न देवानां देवतान्तराभावात्’ इति, ‘न ऋषीणाम् , आर्षेयान्तराभावात्’ (जै. सू. ६ । १ । ६,७) इति; न तद्विद्यासु अस्ति । न हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित्कृत्यमस्ति । न च भृग्वादीनां भृग्वादिसगोत्रतया । तस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते ? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया न विरुध्यते ॥ २६ ॥

शास्त्रस्य मनुष्याधिकारत्वे देवादीनां ब्रह्मविद्यायामप्यनधिकारः स्यादित्याशङ्क्याह

तदुपर्यपि बादरायणः सम्भवात् ।

ननु समन्वयाध्यायेऽधिकारचिन्ता न सङ्गतेत्यत आह

अङ्गुष्ठेति ।

स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । अत्र मनुष्याधिकारत्वोक्त्या स्मृतानां देवादिनां वेदान्तश्रवणादावधिकारोऽस्ति न वेति सन्देहे भोगासक्तानां वैराग्याद्यसम्भवान्नेति प्राप्ते सिद्धान्तमाह

बाढमिति ।

एवमधिकारविचारात्मकाधिकरणद्वयस्य प्रासङ्गिकी सङ्गतिः । अत्र पूर्वपक्षे देवादिनां ज्ञानानधिकाराद्देवत्वप्राप्तिद्वारा क्रममुक्तिफलासु दहराद्युपासनासु क्रममुक्त्यर्थिनां मनुष्याणामप्रवृत्तिः फलम् , सिद्धान्ते तु प्रवृत्तिः । उपासनाभिर्देवत्वं प्राप्तानां श्रवणादिना ज्ञानान्मुक्तिसम्भवादिति सफलोऽयं विचारः ।

ननु भोगासक्तानां तेषां मोक्षार्थित्वाभावान्नाधिकार इत्यत आह

अर्थित्वं तावदिति ।

विकारत्वेनानृतविषयसुखस्य क्षयासूयादिदोषद्दष्ट्या निरतिशयसुखमोक्षार्थित्वं सत्त्वप्रकृतीनां देवानां सम्भवतीत्यर्थः ।

नन्विन्द्राय स्वाहेत्यादौ चतुर्थ्यन्तशब्दातिरिक्ता विग्रहवती देवता नास्ति, शब्दस्य चासामर्थ्यान्नाधिकार इत्यत आह

तथेति ।

अर्थित्ववदित्यर्थः ।

अपर्युदस्तत्वमाह

नचतेषामिति ।

'शूद्रो यज्ञे नवक्लृप्तः' इतिवद्देवादीनां विद्याधिकारनिषेधो नास्तीत्यर्थः ।

ननु विग्रहवत्त्वेन दृष्टसामर्थ्ये सत्यप्युपनयनाभावाच्छास्त्रीयं सामर्थ्यं नास्तीत्यत आह

न चेति ।

जन्मान्तराध्ययनबलात्स्वयमेव प्रतिभाताः स्मृता वेदा येषां ते तथा तद्भावादित्यर्थः । बालादिषु प्रविष्टपिशाचादीनां वेदोद्घोषदर्शनाद्देवयोनीनां जन्मान्तरस्मरणमस्तीति स्मृतवेदान्तानामर्थविचारो युक्त इत्यर्थः ।

देवानामृषीणां च विद्याधिकारे कारणमर्थित्वादिकमुक्त्वा श्रौतं गुरुकुलवासादिलिङ्गमाह

अपिचेति ।

ननु ब्रह्मविद्या देवादीन्नाधिकरोति, वेदार्थत्वात् , अग्निहोत्रवदित्यत आह

यदपीति ।

देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावादिति प्रथमसूत्रार्थः । ऋषीणामनधिकारः, ऋष्यन्तराभावादृषियुक्ते कर्मण्यशक्तेरिति द्वितीयसूत्रार्थः ।

असामर्थ्यमुपाधिरिति परिहरति

न तदिति ।

असामर्थ्यरूपं कारणमित्यर्थः । न ह्यस्ति येनासामर्थ्यं स्यादिति शेषः । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम्' इतिवाक्यबाधोऽप्यनुमानस्य द्रष्टव्यः ।

ननु देवादीन्प्रत्यङ्गुष्ठमात्रश्रुतिः कथम् , तेषां महादेहत्वेन हृदयस्यास्मदङ्गुष्ठमात्रत्वाभावात् । अतः श्रुतिषु तेषां नाधिकार इत्यत आह

देवाद्यधिकारेऽपीति ॥ २६ ॥