ननु मन्त्रादीनां प्रतीयमानविग्रहवत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्यक्षादिविरोधेन स्वार्थे तात्पर्यकल्पनानुपपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति
विरोधःकर्मणीत्यादिना ।
वर्ण्येत, तर्हीति शेषः । स्वरूपं विग्रहः ।
अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्यानुपलब्ध्या देवताया विग्रहवत्या अभावात्सम्प्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह
तदा चेति ।
विग्रहस्याङ्गत्वमुपलब्धिबाधितं युक्त्या च न सम्भवतीत्याह
न चेति ।
तस्मादर्थोपहितशब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः ।
परिहरति
नायमिति ।
एकस्यापि देवस्य योगबलादनेकदेहप्राप्तिः श्रुतिस्मृतिदर्शनात्सम्भवति । अतो न कर्मणि विरोध इति व्याचष्टे
कस्मादित्यादिना ।
वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा 'त्रयश्च' इत्यादिरूपयोत्तरं ददौ । निविन्नाम शस्यमानदेवसङ्ख्यावाचकः शब्दः । षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति सङ्ख्योक्तौ सङ्ख्येयस्वरूपप्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रयस्त्रिंशद्देवानामतोऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशदेवास्तेऽपि षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानस्तेऽपि षट्सु देवेष्वन्तर्भवन्ति । षट्देवास्त्रिषु लोकेषु त्रयश्च द्वयोरन्नप्राणयोर्द्वै च एकस्मिन्प्राणे हिरण्यगर्भेऽन्तर्भवत इति दर्शितमित्यर्थः । त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः ।
दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे
तथा स्मृतिरिति ।
बलं योगसिद्धिम् । 'अणिमा महिमा चैव लघिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता' ॥ इत्यष्टैश्वर्याणि । क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी । अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः । ईशिता सृष्टिशक्तिः । प्राकाम्यमिच्छानाभिघातः । वशित्वं नियमनशक्तिः । सङ्कल्पमात्रादिष्टलाभो यत्रकामावसायितेति भेदः । आजानसिद्धानां जन्मना सिद्धानामित्यर्थः ।
फलितमाह
अनेकेति ।
अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः ।
तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह
क्वचिदेक इति ।
प्रकृतोपयुक्तमन्वयदृष्टान्तमाह
क्वचिच्चेति ॥ २७ ॥