ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
परमेश्वरोपदेशपरमेवेदं वाक्यम् , न शारीरमात्रान्वाख्यानपरम् । कस्मात् ? सुषुप्तावुत्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात् । सुषुप्तौ तावत् ‘अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति । तत्र पुरुषः शारीरः स्यात् , तस्य वेदितृत्वात् । बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसम्भवात् । प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् । तथोत्क्रान्तावपि ‘अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति’ (बृ. उ. ४ । ३ । ३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति । तत्रापि शारीरो जीवः स्यात् , शरीरस्वामित्वात् । प्राज्ञस्तु स एव परमेश्वरः । तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यते । यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति, अत्र ब्रूमः — उपक्रमे तावत् ‘योऽयं विज्ञानमयः प्राणेषु’ इति न संसारिस्वरूपं विवक्षितम् — किं तर्हि ? — अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति । यतः ‘ध्यायतीव लेलायतीव’ इत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते । तथोपसंहारेऽपि यथोपक्रममेवोपसंहरति — ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ इति । योऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते, स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः । यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, स प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत । यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षितं — किं तर्हि ? — अवस्थारहितत्वमसंसारित्वं च । कथमेतदवगम्यते ? यत् ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४ । ३ । १४) इति पदे पदे पृच्छति । यच्च ‘अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति पदे पदे प्रतिवक्ति । ‘अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवति’ (बृ. उ. ४ । ३ । २२) इति च । तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥ ४२ ॥

आदिमध्यावसानेषु जीवोक्तेर्जीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति

परमेश्वरेत्यादिना ।

वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञस्याज्ञातस्योत्तरोक्तिरसङ्गता स्यात् , अतो ज्ञाताज्ञातसंनिपाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयम् , 'अपूर्वे वाक्यतात्पर्यम्' इति न्यायादिति सिद्धान्ततात्पर्यम् ।

पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति

तत्र पुरुष इत्यादिना ।

देहस्य वेदनाप्रसक्तेर्निषेधायोगात्पुरुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वारूढोऽधिष्ठितः । उत्सर्जन् घोराञ्शब्दान्मुञ्चन् । बुद्धौ ध्यायन्त्यामात्माध्यायतीव चलन्त्यां चलतीव ।

वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह

यत इति ।

उपक्रमवदुपसंहारवाक्येऽप्यैक्यं विविक्षितमित्याह

तथेति ।

व्याचष्टे

योऽयमिति ।

अवस्थोपन्यासस्य त्वमर्थशुद्धिद्वारैक्यपरत्वान्न जीवलिङ्गत्वमित्याह

यतो न बुद्धान्तेति ।

प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह

यदत ऊर्ध्वमिति ।

कामादिविवेकानन्तरमित्यर्थः ।

भवतीति चेति ।

यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना । तेनावस्थाधर्मेणानन्वागतोऽस्पृष्टो भवति, असङ्गत्वात् । सुषुप्तावप्यात्मतत्त्वं पुण्यपापाभ्यामस्पृष्टं भवति । हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः ॥ ४२ ॥