ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
उक्तमेतत् — प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम् , न प्रधानमिति । इदमिदानीमाशङ्क्यते — कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हम् , अस्पष्टवचनस्त्वव्यक्तशब्द इति । अत उत्तरमुच्यते — सूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात् । यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति, तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति । प्रकृतिशब्दश्च विकारे दृष्टः — यथा ‘गोभिः श्रीणीत मत्सरम्’ (ऋ. सं. ९ । ४६ । ४) इति । श्रुतिश्च — ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १ । ४ । ७) इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं दर्शयति ॥ २ ॥

शङ्कोत्तरत्वेन सूत्रं व्याचष्टे

उक्तमेतदित्यादिना ।

कार्यकारणयोरभेदान्मूलप्रकृतिवाचकाव्यक्तशब्देन विकारो लक्ष्यत इत्यर्थः । गोभिर्गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत । मिश्रितं कुर्यादिति यावत् । 'श्रीञ्पाके' इति धातोर्लोटि मध्यमपुरुषबहुवचनमेतत् ।

अव्यक्तात्मना कार्यस्याव्यक्तशब्दयोग्यत्वे मानमाह

श्रुतिश्चेति ।

तर्हि प्रागवस्थायामिदं जगदव्याकृतमासीत् ह किलेत्यर्थः । बीजरूपा शक्तिः संस्कारस्तदवस्थम् ॥ २ ॥