अपसिद्धान्तशङ्कोत्तरत्वेन सूत्रं व्याचष्टे
अत्राहेत्यादिना ।
तर्हि तदा । एवं सति सूक्ष्मशब्दितप्रागवस्थाभ्युपगमे सति ।
ईश्वरे कल्पिता तन्नियम्येत्यङ्गीकारान्नापसिद्धान्त इत्याह
अत्रोच्यत इत्यादिना ।
कूटस्थब्रह्मणः स्रष्टृत्वसिद्ध्यर्थमविद्या स्वीकार्येत्युक्तम् । बन्धमुक्तिव्यवस्थार्थमपि सा स्वीकार्येत्याह
मुक्तानामिति ।
यन्नाशान्मुक्तिः सा स्वीकार्या, तां विनैव सृष्टौ मुक्तानां पुनर्बन्धापत्तेरित्यर्थः ।
तस्याः परपरिकल्पितसत्यस्वतन्त्रप्रधानाद्वैलक्षण्यमाह
अविद्येत्यादिना ।
मायामयी प्रसिद्धमायोपमिता । लोके मायाविनो मायावत्परतन्त्रेत्यर्थः ।
जीवभेदोपाधित्वेनापि सा स्वीकार्येत्याह
महासुषुप्तिरिति ।
बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः ।
अविद्यायां श्रुतिमप्याह
तदेतदिति ।
आकाशहेतुत्वादाकाशः । ज्ञानं विनान्ताभावादक्षरम् । विचित्रकारित्वान्मायेति भेदः ।
इदानीमविद्याया ब्रह्माभेदान्यत्वाभ्यामनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह
अव्यक्तेति ।
तस्य महतः परत्वं कथमित्यत आह
तदिदमिति ।
यदा बुद्धिर्महांस्तदा तद्धेतुत्वात्परत्वमित्युक्तमित्यन्वयः ।
प्रतिबिम्बस्योपाधिपरतन्त्रत्वादुपाधेः प्रतिबिम्बात्परत्वमाह
यदा त्विति ।
हेतुं स्फुटयति
अविद्येति ।
अव्यक्तस्य परत्वेऽपि शरीरस्य किं जातम् , तदाह
तच्चेति ।
नन्विन्द्रियादीनामप्यव्यक्ताभेदादव्यक्तत्वं परत्वं च किमिति नोच्यते, तत्राह
सत्यपीति ।