ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
इतश्च प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा; यस्मात्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यतेतद्विषय एव प्रश्नःनातोऽन्यस्य प्रश्न उपन्यासो वास्तितत्र तावत् त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्’ (क. उ. १ । १ । १३) इत्यग्निविषयः प्रश्नःयेयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैकेएतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति जीवविषयः प्रश्नःअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति परमात्मविषयःप्रतिवचनमपिलोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’ (क. उ. १ । १ । १५) इत्यग्निविषयम्हन्त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्यथा मरणं प्राप्य आत्मा भवति गौतम ।’ (क. उ. २ । २ । ६)योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनःस्थाणुमन्येऽनुसंयन्ति थाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इति व्यवहितं जीवविषयम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इत्यादिबहुप्रपञ्चं परमात्मविषयम्नैवं प्रधानविषयः प्रश्नोऽस्तिअपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति

किञ्चात्र कठवल्ल्यां प्रधानस्य प्रश्नोत्तरयोरसत्त्वान्न ग्रहणमित्याह

त्रयाणामिति ।

मृत्युना नचिकेतसं प्रति त्रीन्वरान्वृणीष्वेत्युक्तेः त्रयाणामेव प्रश्नो नचिकेतसा कृतः । उपन्यासश्च मृत्युना कृतः । नान्यस्येत्यर्थः ।

प्रश्नत्रयं क्रमेण पठति

तत्र तावदिति ।

हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्निं स्मरसि । प्रेते मृते । देहादन्योऽस्ति न वेति संशयोऽस्ति । अत एतदात्मतत्त्वमसन्दिग्धं जानीयामित्यर्थः ।

क्रमेणोत्तरत्रयमाह

प्रतिवचनमपीति ।

लोकहेतुविराडात्मनोपास्यत्वाल्लोकादिश्चित्योऽग्निस्तं मृत्युरुवाच नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वा क्रमेणाग्निश्चीयते तत्सर्वमुवाचेत्यर्थः । हन्तेदानीं ब्रह्म वक्ष्यामीति ब्रह्मवाक्येन जीवप्रश्नाद्व्यवहितमपि 'यथा च मरणं प्राप्य' इत्यादि वाक्यं जीवविषयमुत्तरम् , योग्यत्वादित्यर्थः । वाक्यार्थस्तु आत्मा मरणं प्राप्य यथा भवति तथा वक्ष्यामीति ।

प्रतिज्ञातमाह

योनिमिति ।

चराचरदेहप्राप्तौ निमित्तमाह

यथेति ।

श्रुतमुपासनम् । सूत्रे आद्यश्चकारो यत इत्यर्थे । एवं च त्रयाणामेवोपन्यासः प्रश्नश्च यतः अतो न प्रधानमव्यक्तमिति योजना ।