किञ्चात्र कठवल्ल्यां प्रधानस्य प्रश्नोत्तरयोरसत्त्वान्न ग्रहणमित्याह
त्रयाणामिति ।
मृत्युना नचिकेतसं प्रति त्रीन्वरान्वृणीष्वेत्युक्तेः त्रयाणामेव प्रश्नो नचिकेतसा कृतः । उपन्यासश्च मृत्युना कृतः । नान्यस्येत्यर्थः ।
प्रश्नत्रयं क्रमेण पठति
तत्र तावदिति ।
हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्निं स्मरसि । प्रेते मृते । देहादन्योऽस्ति न वेति संशयोऽस्ति । अत एतदात्मतत्त्वमसन्दिग्धं जानीयामित्यर्थः ।
क्रमेणोत्तरत्रयमाह
प्रतिवचनमपीति ।
लोकहेतुविराडात्मनोपास्यत्वाल्लोकादिश्चित्योऽग्निस्तं मृत्युरुवाच नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वा क्रमेणाग्निश्चीयते तत्सर्वमुवाचेत्यर्थः । हन्तेदानीं ब्रह्म वक्ष्यामीति ब्रह्मवाक्येन जीवप्रश्नाद्व्यवहितमपि 'यथा च मरणं प्राप्य' इत्यादि वाक्यं जीवविषयमुत्तरम् , योग्यत्वादित्यर्थः । वाक्यार्थस्तु आत्मा मरणं प्राप्य यथा भवति तथा वक्ष्यामीति ।
प्रतिज्ञातमाह
योनिमिति ।
चराचरदेहप्राप्तौ निमित्तमाह
यथेति ।
श्रुतमुपासनम् । सूत्रे आद्यश्चकारो यत इत्यर्थे । एवं च त्रयाणामेवोपन्यासः प्रश्नश्च यतः अतो न प्रधानमव्यक्तमिति योजना ।