ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
अत्राह — योऽयमात्मविषयः प्रश्नः — ‘येयं प्रेते विचिकित्सा मनुष्येऽस्ति’ इति, किं स एवायम् ‘अन्यत्र धर्मादन्यत्राधर्मात्’ इति पुनरनुकृष्यते, किं वा ततोऽन्योऽयमपूर्वः प्रश्न उत्थाप्यत इति । किं चातः ? स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत, तदा द्वयोरात्मविषययोः प्रश्नयोरेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नोपन्यासाविति । अथान्योऽयमपूर्वः प्रश्न उत्थाप्यत इत्युच्येत, ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोषः; एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति ॥

उक्तार्थे सूत्रमाक्षिपति

अत्राहेति ।

एकः प्रश्नः द्वौ प्रश्नौ वेति पक्षद्वये फलितं पृच्छति

किञ्चात इति ।

सप्तम्यर्थे तसिः । अत्र च पक्षद्वयेऽपि किमित्यर्थः ।

प्रश्नैक्ये सूत्रासङ्गतिः । भेदे प्रधानस्य श्रौतत्वसिद्धिरिति पूर्ववाद्याह

स एवेत्यादिना ।