प्रश्नैक्यपक्षमादाय सिद्धान्त्याह
अत्रोच्यत इति ।
येन प्रधानसिद्धिः स्यादिति शेषः ।
चतुर्थप्रश्नकल्पने वरत्रित्वोपक्रमविरोधः स्यादिति विवृणोति
वरेत्यादिना ।
वरप्रदानमुपक्रमो यस्याः सा । प्रहिताय यमलोकं प्रति प्रेषिताय । इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथापूर्वं सुमनाः स्यादिति प्रथमं वव्रे ।
ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविद्येति प्रश्नभेदः किं न स्यादित्यत आह
येयमिति ।
प्रेते इत्युपक्रम्य तृतीयत्वोक्तिलिङ्गाज्जीवात्मविद्यैव तृतीयो वर इत्यर्थः ।
एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह
तत्रेति ।
मरणधर्माद्यस्पर्शलिङ्गाभ्यां प्रष्टव्ययोर्जीवेश्वरयोर्भेदात्प्रश्नभेदसिद्धेर्वाक्यबाधो युक्त इति शङ्कते
नन्वित्यादिना ।
गोचरत्वादाश्रयत्वात् ।
न केवलं प्रष्टव्यभेदात्प्रश्नभेदः किन्तु प्रश्नवाक्ययोः सादृश्याभावादपीत्याह
प्रश्नच्छायेति ।
प्रष्टव्यभेदोऽसिद्ध इति परिहरति
नेत्यादिना ।
किञ्च ब्रह्मप्रश्ने जन्मादिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह
इह चान्यत्रेति ।
तन्निषेधवाक्ये शिवोक्तिरसिद्धेत्यत आह
सतीति ।
भागी युक्तः । तस्मादविद्यया जीवस्य प्राप्तजन्मादिनिषेधेन स्वरूपमुक्तमित्यर्थः ।
किञ्च जीवो ब्रह्माभिन्नः, मोक्षहेतुज्ञानविषयत्वात् , ब्रह्मवदित्याह
तथा स्वप्नेति ।
अन्तोऽवस्था । येन साक्षिणा प्रमाता पश्यति तमात्मानमिति सम्बन्धः ।
हेतोरप्रयोजकत्वमाशङ्क्य 'तमेव विदित्वा' इति श्रुतिविरोधमाह
प्राज्ञेति ।
किञ्चाभेदमुक्त्वा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह
तथेति ।
इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ । एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मिथ्याभेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः । किञ्च जीवप्रश्नानन्तरं 'तं दुर्दर्शम्' इति यदुत्तरमुवाच तेनाप्युत्तरेणाभेदो गम्यत इति सम्बन्धः ।
प्रष्टृप्रश्नयोः प्रशंसयापि लिङ्गेन पृष्टस्य दौर्लभ्यद्योतनाद्ब्रह्मत्वसिद्धिरित्याह
अन्यं वरमित्यादिना ।
पुत्रादिकं वृणीष्वेत्युक्तेऽपि विषयांस्तुच्छीकृत्यात्मज्ञानान्न चचाल 'नान्यं तस्मान्नचिकेता वृणीते' इति श्रवणात् । तदा सन्तुष्टो यमः 'अन्यच्छ्रेयोऽन्यदुतैव प्रेयः' इति भोगापवर्गमार्गयोर्वैलक्षण्यं प्रतिज्ञाय 'दूरमेते विपरीते विषूची अविद्या या च विद्या' इति दर्शितवानित्यर्थः । प्रेयः प्रियतमं स्वर्गादिकम् , विषूची विरुद्धफले, अविद्या कर्म, विद्या तत्त्वधीः । विद्याभीप्सिनं विद्यार्थिनं त्वामहं मन्ये, यतः त्वा त्वां बहवोऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि नालोलुपन्त लोभवन्तं न कृतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि 'त्वादृङ्नो भूयान्नचिकेतः प्रष्टा' इति स्तुवन्नित्यक्षरार्थः ।
इयं प्रशंसा प्रश्नभेदपक्षे न घटत इत्याह
यत्प्रश्नेति ।
यत्प्रश्नेन स्तुतिं लब्धवांस्तं प्रश्नं विहाय यद्यन्यमेवोत्थापयेत्तर्ह्यनवसरे स्तुतिः कृता स्यादित्यर्थः ।
तस्मादिति ।
प्रष्टव्यभेदाभावादित्यर्थः ।
प्रश्नवाक्यव्यक्त्योः सादृश्याभावात्प्रश्नभेद इत्युक्तं निरस्यति
यत्त्वित्यादिना ।
धर्माद्याश्रयस्य जीवस्य ब्रह्मत्वं कथमित्यत आह
यावदिति ।
अविद्यानाशानन्तरं ब्रह्मत्वं चेदागन्तुकमनित्यं च स्यादित्यत आह
न चाविद्यावत्त्व इति ।
जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मप्रश्नस्य यदुत्तरं तज्जीवप्रश्नस्यापि भवतीति लाभं दर्शयति
ततश्च न जायत इति ।
जीवब्रह्मैक्ये 'त्रयाणाम्' इति सूत्रं कथमित्यत आह
सूत्रं त्विति ।
कल्पितभेदात्प्रश्नभेदकल्पनेत्याह
ततश्चेति ।
परमात्मनः सकाशात्प्रधानस्य वैषम्यमनात्मत्वेन तृतीयवरान्तर्भावायोगादिति भावः ॥ ६ ॥