ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
ततो ब्रूमः — न संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्या । कस्मात् ? नानाभावात् । नाना ह्येतानि पञ्चविंशतिस्तत्त्वानि । नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन् । न ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते । अथोच्येत — पञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथा ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’ इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति; तदपि नोपपद्यते । अयमेवास्मिन्पक्षे दोषः, यल्लक्षणाश्रयणीया स्यात् । परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकेण स्वरेणैकपदत्वनिश्चयात् । प्रयोगान्तरे च ‘पञ्चानां त्वा पञ्चजनानाम्’ (तै. सं. १ । ६ । २ । २) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात् । समस्तत्वाच्च न वीप्सा ‘पञ्च पञ्च’ इति । तेन न पञ्चकद्वयग्रहणं पञ्च पञ्चेति । न च पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम् ‘पञ्च पञ्चकाः’ इति, उपसर्जनस्य विशेषणेनासंयोगात् । नन्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत् । नेति ब्रूमः । युक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम् । इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत् । भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्; तत्र चोक्तो दोषः । तस्मात्पञ्च पञ्चजना इति न पञ्चविंशतितत्त्वाभिप्रायम् । अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम् । अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाः । आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्’ इति सप्तमीसूचितस्य ‘तमेव मन्य आत्मानम्’ इत्यात्मत्वेनानुकर्षणात् । आत्मा च चेतनः पुरुषः; स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमाधेयत्वं च युज्यते । अर्थान्तरपरिग्रहे च तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत । तथा ‘आकाशश्च प्रतिष्ठितः’ इत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य न पृथगुपादानं न्याय्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम् । कथं च संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वेष्वरूढत्वात् , अर्थान्तरोपसङ्ग्रहेऽपि संख्योपपत्तेः । कथं तर्हि पञ्च पञ्चजना इति ? उच्यते — ‘दिक्संख्ये संज्ञायाम्’ (पा. सू. २ । १ । ५०) इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः । ततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, न साङ्ख्यतत्त्वाभिप्रायेण । ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते । पञ्चजना नाम ये केचित् , ते च पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ ११ ॥

सङ्ख्यया तत्त्वानामुपसंग्रहात् शब्दवत्त्वमिति प्राप्ते सिद्धान्तयति

नेति ।

नानात्वमिष्टमित्यत आह

नैषामिति ।

पञ्चसु पञ्चसु साधारणस्येतरपञ्चकाद्व्यावृत्तस्य धर्मस्याभावोऽत्र नानात्वं विवक्षितमित्यर्थः । यद्यपि ज्ञानकर्मेन्द्रियेषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पञ्चकद्वयेऽस्ति, पञ्चतन्मात्रासु पञ्चसु स्थूलप्रकृतित्वं च, तथापि यस्मिन्नित्यात्मन आकाशस्य च पृथगुक्तेः सत्त्वरजस्तमोमहदहङ्काराः पञ्च कर्तव्याः, मनश्चत्वारि भूतानि च पञ्च । अस्मिन् पञ्चकद्वये मिथोऽनुवृत्तेतरपञ्चकव्यावृत्तधर्मो नास्तीत्यभिप्रायः ।

मास्त्वित्यत आह

येनेति ।

धर्मेणेत्यर्थः ।

तदेव स्फुटयति

नहीति ।

महासङ्ख्यायामवान्तरसङ्ख्याः प्रविशन्ति, यथा द्वावश्विनौ सप्तर्षयोऽष्टौ वसवश्चेति सप्तदशेत्यत्राश्वित्वादिकमादाय द्वित्वादयः प्रविशन्ति । नान्यथेत्यर्थः ।

पञ्चशब्दद्वयेन स्ववाच्यन्यूनसङ्ख्याद्वारेण तद्व्याप्या महासङ्ख्यैव लक्ष्यत इति सदृष्टान्तं शङ्कते

अथेति ।

मुख्यार्थस्य वक्ष्यमाणत्वाल्लक्षणा न युक्तेति परिहरति

तदपि नेति ।

पञ्चजनशब्दयोरसमासमङ्गीकृत्य पञ्चविंशतिसङ्ख्याप्रतीर्निरस्ता । सम्प्रति समासनिश्चयान्न तत्प्रतीतिरित्याह

परश्चेति ।

समासे हेतुमाह

पारिभाषिकेणेति ।

अयमर्थः अस्मिन्मन्त्रे प्रथमःपञ्चशब्द आद्युदात्तः । द्वितीयः सर्वानुदात्तः । जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासं विनान्त्यस्याकारस्योदात्तत्वं पूर्वेषामनुदात्ततत्वं च घटते 'समासस्य' इति सूत्रेण समासस्यान्तोदात्तविधानात् । 'अनुदात्तं पदमेकवर्जम्' इति च सूत्रेण यस्मिन्पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्जयित्वावशिष्टं तत्पदमनुदात्तं भवतीति विधानादेव मान्त्रिकान्तोदात्तस्वरेणैकपदत्वनिश्चयः भाषिकाख्ये तु शतपथब्राह्मणस्वरविधायकग्रन्थे 'स्वरितोऽनुदात्तो वा' इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणदशायामुदात्तो भवतीत्यपवाद आश्रितः । तथा चान्त्यादाकारात्पूर्वेषामनुदात्तानामुदात्तत्वं ब्राह्मणावस्थायां प्राप्तम् , 'उदात्तमनुदात्तमनन्त्यम्' इति सूत्रेण मन्त्र दशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितम् , तथा चान्त्यनकारादुपरितन आकार आकाशश्चेत्यनेन श्लिष्टतया पठ्यमानोऽनुदात्तो भवति, अयमन्तानुदात्तस्वरः पारिभाषिकस्तेन ब्राह्मणस्वरेणैकपदत्वं निश्चीयत इति । प्रकटार्थकारैस्तु पाठकप्रसिद्धोऽन्तोदात्तस्वरः पारिभाषिक इति व्याख्यातम् । तद्व्याख्यानं कल्पतरुकारैर्दूषितम् । अन्तानुदात्तं हि समाम्नातारः पञ्चजनशब्दमधीयत इति पाठकप्रसिद्धिरसिद्धेति । तथा च पञ्च पञ्चजना इति मान्त्रिकान्तोदात्तः स्वरः, यस्मिन् पञ्च पञ्चजना इत्यन्तानुदात्तो ब्राह्नणस्वर इति विभागः । उभयथाप्यैकपद्यात्समाससिद्धिरिति ।

तैत्तिरीयकप्रयोगादप्येकपदत्वमित्याह

प्रयोगान्तरे चेति ।

आज्य, त्वा त्वां पञ्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्णामि इत्याज्यग्रहणमन्त्रशेषः । देवतानां कर्मणि यन्त्रवदवस्थितं शरीरं तदेव धर्त्रम् इहामित्रभोगाधारम् , तस्मै तस्यावैकल्यार्थमिति यजमानोक्तिः ।

अस्तु समासस्ततः किमित्यत आह

समस्तत्वाच्चेति ।

आवृतिर्वीप्सा तदभावे पञ्चकद्वयाग्रहणात्पञ्चविंशतिसङ्ख्याप्रतीतिरसिद्धेति भावः । जनपञ्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्वयं तस्य पञ्चपञ्चेति ग्रहणं नेत्यक्षरार्थः ।

किञ्चासमासपक्षेऽपि किं पञ्चशब्दद्वयोक्तयोः पञ्चत्वयोः परस्परान्वयः, किं वा तयोः शुद्धजनैरन्वयः, अथवा पञ्चत्वविशिष्टैर्जनैरपरपञ्चत्वस्यान्वयः । नाद्य इत्याह

नच पञ्चसङ्ख्याया इति ।

विशेषणमन्वयः ।

अनन्वये हेतुमाह

उपसर्जनस्येति ।

अप्रधानानां सर्वेषां प्रधानेनैव विशेष्येणैवान्वयो वाच्यः । गुणानां परस्परान्वये वाक्यभेदापातादित्यर्थः । द्वितीये दशसङ्ख्याप्रतीतिः स्यान्न पञ्चविंशतिसङ्ख्याप्रतीतिः ।

तृतीयमुत्थापयति

नन्विति ।

पञ्चत्वविशिष्टेषु पञ्चत्वान्तरान्वये विशेषणीभूतपञ्चत्वेऽपि पञ्चत्वान्वयात्पञ्चविंशतित्वप्रतीतिरित्यर्थः ।

दृष्टान्तवैषम्येण परिहरति

नेति ब्रूम इति ।

पञ्चानां पूलानां समाहारा इत्यत्र 'सङ्ख्यापूर्वो द्विगुः' इति समासो विहितः । ततो 'द्विगोः' इति सूत्रेण ङीपो विधानात्समाहारप्रतीतौ समाहाराः कतीत्याकाङ्क्षायां सत्यां पञ्चेतिपदान्तरान्वयो युक्तः । पञ्चजना इत्यत्र तु ङीबन्तत्वाभावेन समाहारस्याप्रतीतेः जनानां चादित एव पञ्चत्वोपादानात्सङ्ख्याकाङ्क्षाया असत्त्वात्पञ्चेति पदान्तरं नान्वेति । आकाङ्क्षाधीनत्वादन्वयस्येत्यर्थः । भेदो विशेषणम् ।

ननु जनानां निराकाङ्क्षत्वेऽपि तद्विशेषणीभूतपञ्चत्वानि कतीत्याकाङ्क्षायां पञ्चत्वान्तरं विशेषणं भवत्वित्याशङ्कते

भवदपीति ।

नोपसर्जनस्योपसर्जनान्तरेणान्वयः किन्तु प्रधानेनैवेति नोपसर्जनन्यायविरोध उक्त इति परिहरति

तत्र चेति ।

एवं नानाभावादिति व्याख्यायातिरेकाच्चेति व्याचष्टे

अतिरेकाच्चेत्यादिना ।

अतिरेक आधिक्यम् ।

जनशब्दितपञ्चविंशतितत्त्वेषु आत्मान्तर्भूतो न वा । नाद्य इत्युक्त्वा द्वितीये दोषमाह

अर्थान्तरेति ।

तथाकाशं विकल्प्य दूषयति

तथेति ।

उक्तो दोषः सङ्ख्याधिक्यम् । पञ्चविंशतिजना आत्माकाशौ चेति सप्तविंशतिसङ्ख्या स्यादित्यर्थः । नच सत्त्वरजस्तमसां पृथग्गणनया सेष्टेति वाच्यम् , आकाशस्य पृथगुक्तिवैयर्थ्यात् , यस्मिन्नित्यात्मनि तत्त्वानां प्रतिष्ठोक्तिविरोधात्तव मते स्वतन्त्रप्रधानस्यैवानाधारत्वात् , 'नेह नानास्ति' इति वाक्यशेषविरोधाच्च तव सत्यद्वैतवादित्वात् ।

किं च पञ्चविंशतिसङ्ख्याप्रतीतावपि न साङ्ख्यतत्त्वानां ग्रहणमित्याह

कथं चेति ।

किं जनशब्दात्तत्त्वग्रहः उत सङ्ख्ययेति कथंशब्दार्थः । नाद्य इत्याह

जनेति ।

न द्वितीय इत्याह

अर्थान्तरेति ।

किं तदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति

कथमिति ।

पञ्च च ते जनाश्चेति कर्मधारयादिसमासान्तरात्संज्ञासमासस्याप्तोक्त्या बलवत्त्वं तावदाह

उच्यत इति ।

विग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञायां गम्यमानायां सुबन्तेनोत्तरपदेन समस्यन्ते । यथा दक्षिणाग्निः सप्तर्षय इत्यादि । अयं च समासस्तत्पुरुषभेदः ॥ ११ ॥