ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
जगद्वाचित्वात् ॥ १६ ॥
कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते — ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’ (कौ. ब्रा. ४ । १८) इति । तत्र किं जीवो वेदितव्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयः । किं तावत्प्राप्तम् ? प्राण इति । कुतः ? ‘यस्य वैतत्कर्म’ इति श्रवणात् । परिस्पन्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात् । वाक्यशेषे च ‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राणशब्ददर्शनात् । प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात् । ये चैते पुरस्ताद्बालाकिना ‘आदित्ये पुरुषश्चन्द्रमसि पुरुषः’ इत्येवमादयः पुरुषा निर्दिष्टाः, तेषामपि भवति प्राणः कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्मनाम् — ‘कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते’ (बृ. उ. ३ । ९ । ९) इति श्रुत्यन्तरप्रसिद्धेः । जीवो वायमिह वेदितव्यतयोपदिश्यते । तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् — ‘यस्य वैतत्कर्म’ इति । सोऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यते । वाक्यशेषे च जीवलिङ्गमवगम्यते — यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति । तथा परस्तादपि जीवलिङ्गमवगम्यते — ‘तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’ (कौ. ब्रा. ४ । २०) इति । प्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम् । तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयः, न परमेश्वरः, तल्लिङ्गानवगमादित्येवं प्राप्ते ब्रूमः —

जगद्वाचित्वात् । विषयमाह

कौषीतकीति ।

बलाकाया अपत्यं बालाकिर्ब्राह्मणस्तं प्रति राजोवाच

यो वा इति ।

न केवलमादित्यादीनां कर्ता किन्तु सर्वस्य जगत इत्याह

यस्येति ।

एतज्जगद्यस्य कर्म । क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः ।

कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह

तत्रेति ।

पूर्वत्रैकवाक्यस्थसदादिशब्दबलादसच्छब्दो नीतः । इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह

किं तावदिति ।

पूर्वपक्षे वाक्यस्य प्राणाद्युपास्तिपरत्वाद्ब्रह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये समन्वयसिद्धिरिति फलम् । अथ सुषुप्तौ । द्रष्टेति शेषः ।

श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह

ये चैत इति ।

सूत्रात्मकप्राणस्य विकाराः सूर्यादय इत्यत्र मानमाह

क्रतम इति ।

यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितम् , अतः सर्वदेवात्मकत्वात् , स प्राणो ब्रह्म । त्यत् परोक्षम् । शास्त्रैकवेद्यत्वादित्यर्थः ।

पूर्वपक्षान्तरमाह

जीवो वेति ।

यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना । तौ ह पुरुषं सुप्तमाजग्मतुः । तं राजा हे बृहत्पाण्डरवासः सोमराजन्नित्यामन्त्र्य सम्बोध्य सम्बोधनानभिज्ञत्वात्प्राणादेरनात्मत्वमुक्त्वा यष्ठ्याघातेनोत्थाप्य जीवं बोधितवानित्यर्थः । श्रेष्ठी प्रधानः स्वैर्भृत्यैर्ज्ञातिभिरुपहृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवोऽपि आदित्यादिभिः प्रकाशादिना भोगोपकरणैर्भुङ्क्ते ते च हविर्ग्रहणादिना जीवमुपजीवन्तीत्युक्तं भोक्तृत्वं जीवलिङ्गम् ।

ननु 'प्राण एवैकधा भवति' इति श्रुतः प्राणशब्दो जीवे कथमित्यत आह

प्राणभृत्त्वाच्चेति ।

सूत्राद्बहिरेव सिद्धान्तयति

एवमिति ।