मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः
चतुर्थः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
अभिध्योपदेशाच्च ॥ २४ ॥
अभिध्योपदेशश्चात्मनः
कर्तृत्वप्रकृतित्वे
गमयति
—
‘
सोऽकामयत
बहु
स्यां
प्रजायेय
’ (तै. उ. २ । ६ । १)
इति
,
‘
तदैक्षत
बहु
स्यां
प्रजायेय
’ (छा. उ. ६ । २ । ३)
इति
च
।
तत्राभिध्यानपूर्विकायाः
स्वातन्त्र्यप्रवृत्तेः
कर्तेति
गम्यते
।
बहु
स्यामिति
प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्य
प्रकृतिरित्यपि
गम्यते
॥ २४ ॥
अभिध्या सृष्टिसङ्कल्पः ॥ २४ ॥