सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥१॥
साङ्ख्यादिस्मृतियुक्तिभिर्न चलितो वेदान्तसिद्धान्तगो निर्मूलैर्विविधागमैरविदितो व्योमादिजन्माप्ययः ।
उत्पत्त्यन्तविवर्जितश्चितिवपुर्व्यापी च कर्तांशको लिङ्गेन प्रथितोऽपि नामतनुकृत्तं जानकीशं भजे ॥२॥
'नामरूपे व्याकरवाणि' इति श्रुतेर्नामतनुकृदपि संज्ञामूर्तिव्याकर्तापि लिङ्गशरीरोपाधिना कर्तेति अंश इति च प्रथितः प्रसिद्धो यस्तं प्रत्यगभिन्नं परमात्मानं मूलप्रकृतिनियन्तारं भजे इत्यर्थः ।
स्मृतिप्रसङ्गात्पूर्वोत्तराध्याययोर्विषयविषयिभावसङ्गतिं वक्तुं वृत्तं कीर्तयति -
प्रथमेऽध्याय इति ।
जन्मादिसूत्रमारभ्य जगदुत्पत्त्यादिकारणं ब्रह्मेति प्रतिपादितम् , 'शास्त्रदृष्ट्या तु' इत्यादिसूत्रेषु स एवाद्वितीयः सर्वात्मेत्युक्तम् , 'आनुमानिकम्' इत्यादिना कारणान्तरस्याश्रौतत्वं दर्शितमित्यर्थः ।
एवं प्रथमाध्यायस्यार्थमनूद्य तस्मिन् विषये विरोधपरिहारविषयिणं द्वितीयाध्यायस्यार्थं पादशः सङ्क्षिप्य कथयति -
इदानीमिति ।
अत्र प्रथमपादे समन्वयस्य साङ्ख्यादिस्मृतियुक्तिभिर्विरोधपरिहारः क्रियते । द्वितीयपादे साङ्ख्याद्यागमानां भ्रान्तिमूलत्वमविरोधाय कथ्यते । तृतीयपादे प्रतिवेदान्तं सृष्टिश्रुतीनां जीवात्मश्रुतीनां च व्योमादिमहाभूतानां जन्मलयक्रमादिकथनेनाविरोधः प्रतिपाद्यते । चतुर्थपादे लिङ्गशरीरश्रुतीनामविरोध इत्यर्थः । अयमेवार्थः सुखबोधार्थं श्लोकेन सङ्गृहीतः 'द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता ।भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता ॥ ' इति । तत्राज्ञाते विषये विरोधशङ्कासमाध्ययोगात्समन्वयाध्यायानन्तर्यमविरोधाध्यायस्य युक्तम् । तत्र प्रथमाधिकरणतात्पर्यमाह -
प्रथममिति ।