ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम्कुतः ? स्मृत्यनवकाशदोषप्रसङ्गात्स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन्तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यतेमन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्तिअस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम् , ईदृशश्चाचारः, इत्थं वेदाध्ययनम् , इत्थं समावर्तनम् , इत्थं सहधर्मचारिणीसंयोग इतितथा पुरुषार्थांश्च वर्णाश्रमधर्मान्नानाविधान्विदधतिनैवं कपिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्तिमोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताःयदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येततस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याःकथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ? भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम्; परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन्; तद्बलेन श्रुत्यर्थं प्रतिपित्सेरन्अस्मत्कृते व्याख्याने विश्वस्युः, बहुमानात्स्मृतीनां प्रणेतृषुकपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यतेश्रुतिश्च भवति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं पश्येत्’ (श्वे. उ. ५ । २) इतितस्मान्नैषां मतमयथार्थं शक्यं सम्भावयितुम्तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्तितस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः

श्रौते समन्वये विरोधनिरासार्थत्वादस्य पादस्य श्रुतिशास्त्राध्यायसङ्गतयः स्वमतस्थापनात्मकत्वात्सर्वेषामधिकरणानामेतत्पादसङ्गतिः । अत्र पूर्वपक्षे स्मृतिविरोधादुक्तसमन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति विवेकः । तत्र ब्रह्मण्युक्तवेदान्तसमन्वयो विषयः । स किं साङ्ख्यस्मृत्या विरुध्यते न वेति स्मृतिप्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमाह -

यदुक्तमिति ।

तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रं कपिलोक्तम् , अन्याश्च पञ्चशिखादिभिः प्रोक्ताः, एवं सति वेदान्तानामद्वयब्रह्मसमन्वये निरर्थकाः स्युरित्यर्थः ।

तासामपि ब्रह्मार्थकत्वमस्तीत्यविरोध इत्यत आह --

तासु हीति ।

ननु साङ्ख्यस्मृतिप्रामाण्याय प्रधानवादग्रहे मन्वादिस्मृतीनामप्रामाण्यं स्यादित्याशङ्क्य तासां धर्मे सावकाशत्वात्प्रामाण्यं स्यादित्याह -

मन्वादीति ।

तर्हि साङ्ख्यादिस्मृतीनामपि धर्मे तात्पर्येण प्रामाण्यमस्तु, तत्त्वं तु ब्रह्मैवेत्यविरोध इत्यत आह -

नैवमिति ।

तत्त्वे विकल्पनानुपपत्तेर्निरवकाशस्मृत्यनुसारेण श्रुतिव्याख्यानमुचितम् , सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायादित्याह -

तस्मादिति ।

श्रुतिविरोधे स्मृत्यप्रामाण्यस्येष्टत्वात्पूर्वपक्षो न युक्त इति शङ्कते -

कथमिति ।

ये स्वातन्त्र्येण श्रुत्यर्थं ज्ञातुं शक्नुवन्ति तेषामयं पूर्वपक्षो न भवेत् , साङ्ख्यवृद्धेषु श्रद्धालूनां तु भवेदित्याह -

भवेदिति ।

तेषामतीन्द्रियार्थज्ञानवत्त्वाच्च तत्र श्रद्धा स्यादित्याह -

कपिलप्रभृतीनां चेति ।

'आदौ यो जायमानं च कपिलं जनयेदृषिम् । प्रसूतं बिभृयाज्ज्ञानैस्तं पश्येत्परमेश्वरम् ॥ ' इति श्रुतियोजना ।