ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
तस्य समाधिः — ‘नान्यस्मृत्यनवकाशदोषप्रसङ्गात्’ इति । यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन् । ता उदाहरिष्यामः — ‘यत्तत्सूक्ष्ममविज्ञेयम्’ इति परं ब्रह्म प्रकृत्य, ‘स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते’ इति चोक्त्वा, ‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’(म॰भा॰ १२-३३४-२९,३०,३१) इत्याह । तथान्यत्रापि ‘अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे सम्प्रलीयते’(म॰भा॰ १२-३३९-३१) इत्याह । ‘अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः । स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयः’(ब्र॰पु॰ १-१-१७४) इति पुराणे । भगवद्गीतासु च — ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ (भ. गी. ७ । ६) इति । परमात्मानमेव च प्रकृत्यापस्तम्बः पठति — ‘तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः’ (आ. ध. सू. १ । ८ । २३ । २) इति । एवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते । स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासः । दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् । विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम् । अनपेक्ष्या इतराः । तदुक्तं प्रमाणलक्षणे — ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ (जै. सू. १ । ३ । ३) इति । न चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं सम्भावयितुम् , निमित्ताभावात् । शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् , न । सिद्धेरपि सापेक्षत्वात् । धर्मानुष्ठानापेक्षा हि सिद्धिः, स च धर्मश्चोदनालक्षणः । ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते । सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति । परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् । तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा सङ्ग्रहणीया । या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम् , कपिलमिति श्रुतिसामान्यमात्रत्वात् , अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् , अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् । भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः — ‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’ (तै. सं. २ । २ । १० । २) इति; मनुना च ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ (मनु. स्मृ. १२ । ९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते । कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् । महाभारतेऽपि च — ‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’(म॰भा॰ १२-३५०-१) इति विचार्य, ‘बहवः पुरुषा राजन्साङ्ख्ययोगविचारिणाम्’ इति परपक्षमुपन्यस्य तद्व्युदासेन — ‘बहूनां पुरुषाणां हि यथैका योनिरुच्यते’,‘ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’(म॰भा॰ १२-३५०-२६,२७) इत्युपक्रम्य ‘ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥’,‘विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति भूतेषु स्वैरचारी यथासुखम्’(म॰भा॰ १२-३५१-४,५) — इति सर्वात्मतैव निर्धारिता । श्रुतिश्च सर्वात्मतायां भवति — ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवंविधा । अतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति । वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् , रवेरिव रूपविषये । पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः । तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः ॥ १ ॥

यथा साङ्ख्यस्मृतिविरोधाद्ब्रह्मवादस्त्याज्य इति त्वयोच्यते तथा स्मृत्यन्तरविरोधात्प्रधानवादास्त्याज्य इति मयोच्यत इति सिद्धान्तयति -

तस्य समाधिरिति ।

तस्माद्ब्रह्मणः सकाशादव्यक्तं मायायां लीनम् । सूक्ष्मात्मकं जगदिति यावत् ।

इतिहासवाक्यान्युक्त्वा पुराणसम्मतिमाह -

अतश्चेति ।

प्रभवत्यस्मादिति प्रभवो जन्महेतुः । प्रलीयते तस्मिन्निति प्रलयो लयाधिष्ठानम् । तस्मात्कर्तुरीश्वरात्काया ब्रह्मादयः प्रभवन्ति । स एव मूलमुपादानम् । किं परिणामि, न, शाश्वतिकः कूटस्थः । अतः स नित्य इत्यर्थः ।

ननु श्रुतिविरोधः किमिति नोक्त इत्यत आह -

स्मृतिबलेनेति ।

स्मृतीनां मिथो विरोधे कथं तत्त्वनिर्णयः, तत्राह -

दर्शितं त्विति ।

श्रुतिभिरेव तत्त्वनिर्णय इत्यर्थः ।

स्मृतीनां का गतिरित्यत आह -

विप्रतिपत्तौ चेति ।

वस्तुतत्त्वे स्मृतीनां मिथो विरोधे वस्तुनि विकल्पायोगात्कॢप्तश्रुतिमूलाः स्मृतयः प्रमाणम् , इतरास्तु कल्प्यश्रुतिमूला न प्रमाणमित्यर्थः ।

कॢप्तश्रुतिविरोधे स्मृतिर्न प्रमाणमित्यतः जैमिनीयन्यायमाह -

तदुक्तमिति ।

'औदुम्बरीं स्पृष्ट्वोद्गायेत्' इति प्रत्यक्षश्रुतिविरुद्धा 'सा सर्वा वेष्टयितव्या' इति स्मृतिर्मानं न वेति सन्देहे, मूलश्रुत्यनुमानान्मानमिति प्राप्ते सिद्धान्तः - कॢप्तश्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्षमपेक्षाशून्यम् । हेयमिति यावत् । हि यतोऽसति विरोधे श्रुत्यनुमानं भवति, अत्र तु विरोधे सति श्रुत्यनुमानायोगान्मूलाभावात्सर्ववेष्टनस्मृतिरप्रमाणमित्यर्थः ।

अस्तु साङ्ख्यस्मृतिः प्रत्यक्षमूलेत्यत आह -

न चेति ।

योगिनां सिद्धिमहिम्नातीन्द्रियज्ञानं सम्भावयितुं शक्यमिति शङ्क्यते -

शक्यमिति ।

कपिलादिभिः किलादौ वेदप्रामाण्यं निश्चित्य तदर्थस्य धर्मस्यानुष्ठानेन सिद्धिः सम्पादिता, तया सिद्ध्या प्रणीतस्मृत्यनुसारेणानादिश्रुतिपीडा न युक्तोपजीव्यविरोधादिति परिहरति -

न । सिद्धेरपीति ।

अतिशङ्कितुमिति ।

श्रुतीनां मुख्यार्थमतिक्रम्योपचरितार्थत्वं शङ्कितुं न शक्यत इत्यर्थः । स्वतःसिद्धेर्वेदो नोपजीव्य इतिचेन्न । अनीश्वरस्य स्वतःसिद्धौ मानाभावात् ।

अङ्गीकृत्याप्याह -

सिद्धेति ।

सिद्धानां वचनमाश्रित्य वेदार्थकल्पनायामपि सिद्धोक्तीनां मिथो विरोधे श्रुत्याश्रितमन्वाद्युक्तिभिरेव वेदार्थनिर्णयो युक्त इत्यर्थः । श्रुतिरूपाश्रयं विना सिद्धोक्तिमात्रं न तत्त्वनिर्णयकारणमित्यक्षरार्थः ।

ननु मन्दमतेः साङ्ख्यस्मृतौ श्रद्धा भवति तस्य मतिर्वेदान्तमार्गे कथमानेयेत्यत आह -

परतन्त्रेत्यादिना ।

ननु श्रुत्या कपिलस्य सर्वज्ञत्वोक्तेस्तन्मते श्रद्धा दुर्वारेत्यत आह -

या त्विति ।

कपिलशब्दमात्रेण साङ्ख्यकर्ता श्रौत इति भ्रान्तिरयुक्ता, तस्य द्वैतवादिनः सर्वज्ञत्वायोगात् । अत्र च सर्वज्ञानसम्भृतत्वेन श्रुतः कपिलो वासुदेवांश एव । स हि सर्वात्मत्वज्ञानं वैदिकं साङ्ख्यमुपदिशतीति सर्वज्ञ इति भावः । प्रतप्तुः प्रदाहकस्य ।

किञ्च यः कपिलं ज्ञानैर्बिभर्ति तमीश्वरं पश्येदिति विधीयते, तथा चान्यार्थस्य ईश्वरप्रतिपत्तिशेषस्य कपिलसर्वज्ञत्वस्य दर्शनमनुवादस्तस्य मानान्तरेण प्राप्तिशून्यस्य स्वार्थसाधकत्वायोगान्नानुवादमात्रात्सर्वज्ञात्वप्रसिद्धिरित्याह -

अन्यार्थेति ।

द्वैतवादिनः कपिलस्य श्रौतत्वं निरस्य ब्रह्मवादिनो मनोः श्रौतत्वमाह -

भवति चेति ।

इतिहासेऽपि कापिलमतनिन्दापूर्वकमद्वैतं दर्शितमित्याह -

महाभारतेऽपीति ।

पुरुषा आत्मानः किं वस्तुतो भिन्ना उत सर्वदृश्यानां प्रत्यगात्मः एक इति विमर्शार्थः । बहूनां पुरुषाकाराणां देहानां यथैका योनिरुपादानं पृथ्वी तथा तं पुरुषमात्मानं विश्वं सर्वोपादानत्वेन सर्वात्मकं सर्वज्ञत्वादिगुणैः सम्पन्नं कथयिष्यामि । विश्वे सर्वे लोकप्रसिद्धा देवतिर्यङ्मनुष्यादीनां मूर्धानोऽस्यैवेति विश्वमूर्धा, एकस्यैव सर्वक्षेत्रेषु प्रतिबिम्बभावेन प्रविष्टत्वात् । एवं विश्वयुजत्वादियोजना । सर्वभूतेष्वेकश्चरत्यवगच्छति । सर्वत्र इत्यर्थः । स्वैरचारी स्वतन्त्रः । नास्य नियन्ता कश्चिदस्ति । सर्वेश्वर इत्यर्थः ।

यथासुखमिति ।

विशोकानन्दस्वरूप इति यावत् ।

कापिलतन्त्रस्य वेदमूलस्मृतिविरोधमुक्त्वा साक्षाद्वेदविरोधमाह -

श्रुतिश्चेति ।

यस्मिञ्ज्ञानकाले केवलं स्वतन्त्रप्रकृतिकल्पनयैव वेदविरुद्धं न किन्त्वात्मभेदकल्पनयापीति सिद्धमिति सम्बन्धः ।

स्मृतिविरोधे वेदस्यैवाप्रामाण्यं किं न स्यादित्यत आह -

वेदस्य हीति ।

वेदस्य प्रामाण्यं स्वतःसिद्धमपौरुषेयत्वात् । पौरुषेयवाक्यानां स्वार्थस्मृतितन्मूलानुभवयोः कल्पनया प्रामाण्यं ज्ञेयमिति व्यवहितं परतःप्रामाण्यमिति विप्रकर्षः । श्रुतिस्मृत्योर्विशेष इत्यक्षरार्थः । समयोर्विरोधे हि निरवकाशेन सावकाशं बाध्यम् । इह स्वतःपरतःप्रमाण्ययोर्वैषम्याज्झटिति निश्चितप्रामाण्येन चानुपसंजातविरोधिना वेदवाक्येन विरुद्धस्मृतेरेव बाध इति भावः ।

तस्मादिति ।

विशेषादित्यर्थः । भ्रान्तिमूलत्वसम्भवादिति भावः ॥१॥