तथा च जगत्सुखदुःखमोहात्मकं सामान्यप्रकृतिकम् , तदन्वितत्वात् , यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह -
मृदैवेति ।
विलक्षणत्वं साधयति -
ब्रह्मविलक्षणत्वं चेति ।
यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्येऽपि भावा द्रष्टव्याः । तत्र प्रीतिः सुखम् , परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः ।
उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तम् , स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते -
ननु चेतनमपीति ।
भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह -
नेत्यादिना ।
उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह -
निरतिशया इति ।
तस्मादुपकारकत्वात् ।
श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति -
योऽपीति ।
घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह -
अविभावनं त्विति ।
अन्तःकरणान्यपरिणामत्वात्सतोऽपि चैतन्यस्यानुपलब्धिरित्यर्थः । अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः ।
वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः -
यथेति ।
आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह -
एतस्मादेवेति ।
साम्येऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः -
यथा चेति ।
चेतनाचेतनभेदः कथमित्यत आह -
प्रविभागेति ।
चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः ।
सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य साङ्ख्यः परिहरति -
तेनापि कथञ्चिदिति ।
अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति -
न चेत्यादिना ।
इतरच्चेतनाचेतनत्वरूपम् । वैलक्षण्यं तथात्वशब्दार्थः । श्रुतार्थापत्तिः शब्देन बाध्येति भावः ॥४॥