ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति, तन्नोपपद्यते । कस्मात् ? विलक्षणत्वादस्य विकारस्य प्रकृत्याः — इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद्ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते । ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते । न च विलक्षणत्वे प्रकृतिविकारभावो दृष्टः । न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति, शरावादयो वा सुवर्णप्रकृतिकाः । मृदैव तु मृदन्विता विकाराः क्रियन्ते, सुवर्णेन च सुवर्णान्विताः । तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हति, न विलक्षणस्य ब्रह्मणः । ब्रह्मविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् । अशुद्धं हीदं जगत् , सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च । अचेतनं चेदं जगत् , चेतनं प्रति कार्यकरणभावेनोपकरणभावोपगमात् । न हि साम्ये सत्युपकार्योपकारकभावो भवति । न हि प्रदीपौ परस्परस्योपकुरुतः । ननु चेतनमपि कार्यकरणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति । न, स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् । यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः स एवान्यस्य चेतनस्योपकरोति, न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा । निरतिशया ह्यकर्तारश्चेतना इति साङ्ख्या मन्यन्ते । तस्मादचेतनं कार्यकरणम् । न च काष्ठलोष्टादीनां चेतनत्वे किञ्चित्प्रमाणमस्ति । प्रसिद्धश्चायं चेतनाचेतनविभागो लोके । तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् । योऽपि कश्चिदाचक्षीत — श्रुत्वा जगतश्चेतनप्रकृतिकताम् , तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि, प्रकृतिरूपस्य विकारेऽन्वयदर्शनात्; अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति । यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते, एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते । एतस्मादेव च विभावितत्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकरणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते । यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवति, एवमिहापि भविष्यति । प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति — तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत; शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते । न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह — तथात्वं च शब्दादिति । अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्ष्यते । तच्च शब्देनैव विरुध्यते, यतः शब्दादपि तथात्वमवगम्यते । तथात्वमिति प्रकृतिविलक्षणत्वं कथयति । शब्द एव ‘विज्ञानं चाविज्ञानं च’ (तै. उ. २ । ६ । १) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ४ ॥

तथा च जगत्सुखदुःखमोहात्मकं सामान्यप्रकृतिकम् , तदन्वितत्वात् , यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह -

मृदैवेति ।

विलक्षणत्वं साधयति -

ब्रह्मविलक्षणत्वं चेति ।

यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्येऽपि भावा द्रष्टव्याः । तत्र प्रीतिः सुखम् , परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः ।

उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तम् , स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते -

ननु चेतनमपीति ।

भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह -

नेत्यादिना ।

उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह -

निरतिशया इति ।

तस्मादुपकारकत्वात् ।

श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति -

योऽपीति ।

घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह -

अविभावनं त्विति ।

अन्तःकरणान्यपरिणामत्वात्सतोऽपि चैतन्यस्यानुपलब्धिरित्यर्थः । अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः ।

वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः -

यथेति ।

आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह -

एतस्मादेवेति ।

साम्येऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः -

यथा चेति ।

चेतनाचेतनभेदः कथमित्यत आह -

प्रविभागेति ।

चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः ।

सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य साङ्ख्यः परिहरति -

तेनापि कथञ्चिदिति ।

अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति -

न चेत्यादिना ।

इतरच्चेतनाचेतनत्वरूपम् । वैलक्षण्यं तथात्वशब्दार्थः । श्रुतार्थापत्तिः शब्देन बाध्येति भावः ॥४॥