ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
दृश्यते तु ॥ ६ ॥
तुशब्दः पक्षं व्यावर्तयतियदुक्तम् विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकम् इति, नायमेकान्तः; दृश्यते हि लोकेचेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम्नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीतिउच्यतेएवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम्महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां स्वरूपादिभेदात् , तथा गोमयादीनां वृश्चिकादीनां अत्यन्तसारूप्ये प्रकृतिविकारभाव एव प्रलीयेतअथोच्येतअस्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्चिकादिष्वितिब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानो दृश्यतेविलक्षणत्वेन कारणेन ब्रह्मप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयते, उत यस्य कस्यचित् , अथ चैतन्यस्येति वक्तव्यम्प्रथमे विकल्पे समस्तप्रकृतिविकारभावोच्छेदप्रसङ्गः ह्यसत्यतिशये प्रकृतिविकार इति भवतिद्वितीये चासिद्धत्वम्दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम्तृतीये तु दृष्टान्ताभावःकिं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मकारणवादिनं प्रत्युदाह्रियेत, समस्तस्य वस्तुजातस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात्आगमविरोधस्तु प्रसिद्ध एव, चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात्यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि सम्भवेयुरिति, तदपि मनोरथमात्रम्रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरःलिङ्गाद्यभावाच्च नानुमानादीनाम्आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत्तथा श्रुतिःनैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’ (क. उ. १ । २ । ९) इति । ‘को अद्धा वेद इह प्रवोचत्इयं विसृष्टिर्यत आबभूव’ (ऋ. सं. १० । १२९ । ७) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतःस्मृतिरपि भवति — ‘अचिन्त्याः खलु ये भावा तांस्तर्केण योजयेत्इति, अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’ (भ. गी. २ । २५) इति , मे विदुः सुरगणाः प्रभवं महर्षयःअहमादिर्हि देवानां महर्षीणां सर्वशः’ (भ. गी. १० । २) इति चैवंजातीयकायदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् , नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः सम्भवतिश्रुत्यनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयतेस्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वम् , सम्प्रसादे प्रपञ्चपरित्यागेन सदात्मना सम्पत्तेर्निष्प्रपञ्चसदात्मत्वम् , प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेकःइत्येवंजातीयकः; तर्काप्रतिष्ठानादि’ (ब्र. सू. २ । १ । ११) ति केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यतियोऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत, तस्यापि विज्ञानं चाविज्ञानं ’ (तै. उ. २ । ६ । १) इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम्परस्यैव त्विदमपि विभागश्रवणं युज्यतेकथम् ? परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते — ‘विज्ञानं चाविज्ञानं चाभवत्इतितत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात् , एवमचेतनस्यापि चेतनभावो नोपपद्यतेप्रत्युक्तत्वात्तु विलक्षणत्वस्य यथा श्रुत्येव चेतनं कारणं ग्रहीतव्यं भवति ॥ ६ ॥

किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा । आद्ये व्यभिचारमाह -

नायमेकान्तः । दृश्यते हीति ।

हेतोरसत्त्वान्न व्यभिचार इति शङ्कते -

नन्विति ।

यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह -

उच्यत इति ।

शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः ।

द्वितीयेऽपि तत्रैव व्यभिचारमाह -

महानिति ।

परिणामिकः । केशादीनां स्वगतपरिणामात्मक इत्यर्थः ।

किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति । आद्ये दोषमाह -

अत्यन्तेति ।

द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह -

अथेत्यादिना ।

विलक्षणत्वं विकल्प्य दूषणान्तरमाह -

विलक्षणत्वेनेत्यादिना ।

जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात् , तदसङ्गतमित्याह -

प्रथम इति ।

तृतीये तु दृष्टान्ताभाव इति ।

न च जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तोऽस्तीति वाच्यम् , अनादित्वस्योपाधित्वात् । न च ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति ।

सम्प्रति कल्पत्रयसाधारणं दोषमाह -

आगमेति ।

पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासम्भवान्न तर्केणाक्षेप इत्याह -

यत्तूक्तमित्यादिना ।

लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः । ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः । एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न सम्पादनीया । यद्वा कुतर्केण न बाधनीया । कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति । हे प्रेष्ठ, प्रियतमेति न चिकेतसं प्रति मृत्योर्वचनम् । इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को वा अद्धा साक्षाद्वेद । तिष्ठतु वेदनम् , क इह लोके तं प्रवोचत्प्रावोचत् । छान्दसो दीर्घलोपः । यथावद्वक्तापि नास्तीत्यर्थः । प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् । मिषेण मननविधिव्याजेन । शुष्कः श्रुत्यनपेक्षः । श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात्पुरुषदोषस्यासम्भावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः ।

तमाह -

स्वप्नान्तेति ।

जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसम्भवि, द्वैतग्राहिप्रमाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासम्भावनायाम् , तन्निरासाय सर्वास्ववस्थास्वात्मनोऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे वह्न्यौष्णवदात्मव्यभिचारायोगात्सुषुप्तौ प्रपञ्चभ्रान्त्यभावे 'सता सोम्य' इत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसम्भवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः । इतोऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः ।

ब्रह्मणि शुष्कतर्कस्याप्रवेशः सूत्रसम्मत इत्याह -

तर्काप्रतिष्ठानादिति ।

विप्रलम्भकत्वमप्रमापकत्वम् । यदुक्तमेकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं साङ्ख्येन । तन्न । तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् ।

साङ्ख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासम्भवादित्याह -

योऽपीत्यादिना ।

सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह -

प्रत्युक्तत्वादिति ।

अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः ॥६॥