अपीतौ जगत्स्वकारणं न दूषयति, कारणे लीनत्वात् , मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे -
नैवेत्यादिना ।
अपिगच्छत् लीयमानम् । विभागावस्था स्थितिकालः ।
त्वत्पक्षस्येति ।
मधुरजलं लवणस्याकारणमित्यदृष्टान्तः ।
किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह -
अपीतिरेवेति ।
असति कार्ये तद्धर्मेण कारणस्य योगो न सम्भवति । धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः ।
ननु सत्कार्यवादे लयेऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह -
अनन्यत्वेऽपीति ।
कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः ।
किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते -
अत्यल्पं चेति ।
परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे -
अस्ति चेति ।
मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह -
यथेति ।
अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह -
प्रबोधेति ।
जाग्रत्सुषुप्त्योः स्वप्नेनात्मनोऽस्पर्शात्तत्कालेऽप्यस्पर्श इत्यर्थः ।
यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह -
एवमिति ।
यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् । तदसङ्गित्वे वृद्धसम्मतिमाह -
अत्रोक्तमिति ।
यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः ।
फलितमाह -
तत्रेति ।
द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति -
यत्पुनरिति ।
सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह -
श्रुतिश्चेति ।
सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः । इह सुषुप्तेः प्राक्प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।
ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वेऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह -
यथा हीति ।
यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागेऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलयेऽपि मिथ्याभूताज्ञानसम्बन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते । यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात्स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः । अज्ञानां जीवानां महाप्रलयेऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः ।
एतेनेति ।
जन्मकारणाज्ञानशक्त्यभावेनेत्यर्थः ॥९॥