ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
न तु दृष्टान्तभावात् ॥ ९ ॥
नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति । यत्तावदभिहितम् — कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तद्दूषणम् । कस्मात् ? दृष्टान्तभावात् — सन्ति हि दृष्टान्ताः, यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति । तद्यथा — शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति । रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति । पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति । त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तोऽस्ति । अपीतिरेव हि न सम्भवेत् , यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत । अनन्यत्वेऽपि कार्यकारणयोः, कार्यस्य कारणात्मत्वम् , न तु कारणस्य कार्यात्मत्वम् — ‘आरम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४) इति वक्ष्यामः । अत्यल्पं चेदमुच्यते — कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति । स्थितावपि हि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात् । ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) ‘सर्वं खल्विदं ब्रह्म’ (छा. उ. ३ । १४ । १) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणादनन्यत्वं श्राव्यते । तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः । अस्ति चायमपरो दृष्टान्तः — यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते, अवस्तुत्वात् , एवं परमात्मापि संसारमायया न संस्पृश्यत इति । यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्वागतत्वात् , एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते । मायामात्रं ह्येतत् , यत्परमात्मनोऽवस्थात्रयात्मनावभासनम् , रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसम्प्रदायविद्भिराचार्यैः — ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (मा. का. १ । १६) इति । तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इति, एतदयुक्तम् । यत्पुनरेतदुक्तम् — समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति, अयमप्यदोषः, दृष्टान्तभावादेव — यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवति, एवमिहापि भविष्यति । श्रुतिश्चात्र भवति — ‘इमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति,’ (छा. उ. ६ । ९ । २) ‘त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति’ (छा. उ. ६ । ९ । ३) इति । यथा ह्यविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितौ दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते । एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् । यः पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितः — अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सोऽप्यनभ्युपगमादेव प्रतिषिद्धः । तस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥ ९ ॥

अपीतौ जगत्स्वकारणं न दूषयति, कारणे लीनत्वात् , मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे -

नैवेत्यादिना ।

अपिगच्छत् लीयमानम् । विभागावस्था स्थितिकालः ।

त्वत्पक्षस्येति ।

मधुरजलं लवणस्याकारणमित्यदृष्टान्तः ।

किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह -

अपीतिरेवेति ।

असति कार्ये तद्धर्मेण कारणस्य योगो न सम्भवति । धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः ।

ननु सत्कार्यवादे लयेऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह -

अनन्यत्वेऽपीति ।

कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः ।

किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते -

अत्यल्पं चेति ।

परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे -

अस्ति चेति ।

मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह -

यथेति ।

अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह -

प्रबोधेति ।

जाग्रत्सुषुप्त्योः स्वप्नेनात्मनोऽस्पर्शात्तत्कालेऽप्यस्पर्श इत्यर्थः ।

यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह -

एवमिति ।

यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् । तदसङ्गित्वे वृद्धसम्मतिमाह -

अत्रोक्तमिति ।

यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः ।

फलितमाह -

तत्रेति ।

द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति -

यत्पुनरिति ।

सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह -

श्रुतिश्चेति ।

सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः । इह सुषुप्तेः प्राक्प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।

ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वेऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह -

यथा हीति ।

यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागेऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलयेऽपि मिथ्याभूताज्ञानसम्बन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते । यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात्स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः । अज्ञानां जीवानां महाप्रलयेऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः ।

एतेनेति ।

जन्मकारणाज्ञानशक्त्यभावेनेत्यर्थः ॥९॥