ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्वपक्षदोषाच्च ॥ १० ॥
स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुःष्युःकथमित्युच्यतेयत्तावदभिहितम् , विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति प्रधानप्रकृतिकतायामपि समानमेतत् , शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात्अत एव विलक्षणकार्योत्पत्त्यभ्युपगमात् समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गःतथापीतौ कार्यस्य कारणाविभागाभ्युपगमात्तद्वत्प्रसङ्गोऽपि समानःतथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेषु , इदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदाः, ते तथैव पुनरुत्पत्तौ नियन्तुं शक्यन्ते, कारणाभावात्विनैव कारणेन नियमेऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गःअथ केचिद्भेदा अपीतावविभागमापद्यन्ते केचिन्नेति चेत्ये नापद्यन्ते, तेषां प्रधानकार्यत्वं प्राप्नोति; इत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीति अदोषतामेवैषां द्रढयतिअवश्याश्रयितव्यत्वात् ॥ १० ॥

वैलक्षण्यादीनां साङ्ख्यपक्षेऽपि दोषत्वान्नास्माभिस्तन्निरासप्रयासः कार्य इत्याह -

स्वपक्षेति ।

सूत्रं व्याचष्टे -

स्वेति ।

प्रादुःष्युः प्रादुर्भवेयुः ।

अत एवेति ।

सत्यकार्यस्य विरुद्धकारणात्मना सत्त्वायोगात्साङ्ख्यस्यैवायं दोषो न कार्यमिथ्यात्ववादिन इति मन्तव्यम् ।

'अपीतौ' इति सूत्रोक्तदोषचतुष्टयमाह -

तथापीताविति ।

कार्यवत्प्रधानस्य रूपादिमत्त्वप्रसङ्गः । इदं कर्मादिकमस्योपादानं भोग्यमस्य नेत्यनियमः । बद्धमुक्तव्यवस्था च । यदि व्यवस्थार्थं मुक्तानां भेदाः सङ्घातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्येत तर्ह्यलीनानां पुरुषवत्कार्यत्वव्याघात इत्यर्थः ॥१०॥