ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥
इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम्; यस्मान्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति, उत्प्रेक्षाया निरङ्कुशत्वात्तथा हिकैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना दृश्यन्तेतैरप्युत्प्रेक्षिताः सन्तस्ततोऽन्यैराभास्यन्त इति प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुम् , पुरुषमतिवैरूप्यात्अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य अन्यस्य वा सम्मतस्तर्कः प्रतिष्ठित इत्याश्रीयेतएवमप्यप्रतिष्ठितत्वमेवप्रसिद्धमाहात्म्याभिमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात्अथोच्येतअन्यथा वयमनुमास्यामहे, यथा नाप्रतिष्ठादोषो भविष्यति हि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम्एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते, केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयानां तर्काणामप्रतिष्ठितत्वकल्पनात्सर्वतर्काप्रतिष्ठायां लोकव्यवहारोच्छेदप्रसङ्गःअतीतवर्तमानाध्वसाम्येन ह्यनागतेऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यतेश्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियतेमनुरपि चैवं मन्यते — ‘प्रत्यक्षमनुमानं शास्त्रं विविधागमम्त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सताइति आर्षं धर्मोपदेशं वेदशास्त्राविरोधिनायस्तर्केणानुसन्धत्ते धर्मं वेद नेतरः’ (मनु. स्मृ. १२ । १०५,१०६) इति ब्रुवन्अयमेव तर्कस्यालङ्कारःयदप्रतिष्ठितत्वं नामएवं हि सावद्यतर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति हि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम्तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत्एवमप्यविमोक्षप्रसङ्गःयद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते, तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य हीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम्रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचामअपि सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमःतच्च सम्यग्ज्ञानमेकरूपम् , वस्तुतन्त्रत्वात्एकरूपेण ह्यवस्थितो योऽर्थः परमार्थःलोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यतेयथाग्निरुष्ण इतितत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्नातर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिःयद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिष्ठापितम् , तदपरेण व्युत्थाप्यतेतेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोकेकथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् प्रधानवादी तर्कविदामुत्तम इति सर्वैस्तार्किकैः परिगृहीतः, येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले समाहर्तुम् , येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात्वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे सति व्यवस्थितार्थविषयत्वोपपत्तेः, तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम्अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम्अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येतअत आगमवशेन आगमानुसारितर्कवशेन चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम् ॥ ११ ॥

किञ्च तर्कस्य सम्भावितदोषत्वात्तेन निर्दोषवेदान्तसमन्वयो न बाध्य इत्याह -

तर्काप्रतिष्ठानादपीति ।

पुरुषमतीनां विचित्रत्वेऽपि कपिलस्य सर्वज्ञत्वात्तदीयतर्के विश्वास इति शङ्कते -

अथेति ।

'कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा' इति न्यायेन परिहरति -

एवमपीति ।

सूत्रमध्यस्थशङ्काभागं व्याचष्टे -

अथोच्येतेति ।

विलक्षणत्वादितर्काणामप्रतिष्ठितत्वेऽपि व्याप्तिपक्षधर्मतासम्पन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधानमनुमेयमित्यर्थः ।

ननु सोऽप्यप्रतिष्ठितः तर्कजातीयत्वाविलक्षणत्वादिवदित्यत आह -

न हीति ।

तर्कजातीयत्वादिति तर्कः प्रतिष्ठितो न वा । आद्येऽत्रैवाप्रतिष्ठितत्वसाध्याभावाद्वयभिचारः ।

द्वितीयेऽपि न सर्वतर्काणामप्रतिष्ठितत्वं हेत्वभावादित्यभिसन्धिमानाह -

एतदपीति ।

किञ्चानागतपाक इष्टसाधनम् , पाकत्वात् , अतीतपाकवदित्यादिष्टानिष्टसाधनानुमानात्मकतर्कस्य प्रवृत्तिनिवृत्तिव्यवहारहेतुत्वान्नाप्रतिष्ठेत्याह -

सर्वतर्केति ।

अध्वा विषयः पाकभोजनादिर्विषभक्षणादिश्च, तत्सामान्येन पाकत्वादिनानागतविषये पाकादौ सुखदुःखहेतुत्वानुमित्या प्रवृत्त्यादिरित्यर्थः ।

किञ्च पूर्वोत्तरमीमांसयोस्तर्केणैव वाक्यतात्पर्यनिर्णयस्य क्रियमाणत्वात्तर्कः प्रतिष्ठित इत्याह -

श्रुत्यर्थेति ।

मनुरपि केषाञ्चित्तर्काणां प्रतिष्ठां मन्यत इत्याह -

मनुरिति ।

धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः ।

कस्यचित्तर्कस्याप्रतिष्ठितत्वमङ्गीकरोति -

अयमेवेति ।

सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः ।

पूर्वपक्षतर्कवत्सिद्धान्ततर्कोऽप्यप्रतिष्ठितः, तर्कत्वाविशेषादिति वदन्तमुपहसति -

न हीति ।

क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे -

यद्यपीत्यादिना ।

अतिगम्भीरत्वं ब्रह्मणो वेदान्यमानागम्यत्वम् । भावस्य जगत्कारणस्य याथात्म्यमद्वयत्वम् । मुक्तिनिबन्धनं मुक्त्यालम्बनम् ।

ब्रह्मणो वेदान्यमानागम्यत्वं दर्शयति -

रूपादिति ।

अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह -

अपि चेत्यादिना ।

एकरूपवस्तुज्ञानस्य सम्यग्ज्ञानत्वेऽपि तर्कजन्यत्वं किं न स्यादित्यत आह -

तत्रैवं सतीति ।

तर्कोत्थज्ञानानां मिथो विप्रतिपत्तेर्न सम्यग्ज्ञानत्वम् । सम्यग्ज्ञाने विप्रतिपत्त्ययोगादित्यर्थः । एकरूपेणानवस्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना ।

ननु साङ्ख्यस्य श्रेष्ठत्वात्तज्ज्ञानं सम्यगित्याशङ्क्य हेत्वसिद्धिमाह -

न च प्रधानेति ।

ननु सर्वतार्किकैर्मिलित्वा निश्चिततर्कोत्था मतिर्मुक्तिहेतुरित्यत आह -

न च शक्यन्त इति ।

तस्मात्तर्कोत्थज्ञानान्मुक्त्ययोगात्तर्केण वेदान्तसमन्वयबाधो न युक्तः, तद्बाधे सम्यग्ज्ञानालाभेनानिर्मोक्षप्रसङ्गादिति सूत्रांशार्थमुपसंहरति -

अतोऽन्यत्रेति ।

समन्वयस्य तर्केणाविरोधे फलितमधिकरणार्थमुपसंहरति -

अत आगमेति ॥११॥