अद्वितीयाद्ब्रह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः । स किं यन्मिथो भिन्नं तन्नाद्वितीयकारणाभिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्कसहितभेदप्रत्यक्षादिना विरुध्यते न वेति सन्देहे ब्रह्मणि तर्कस्याप्रतिष्ठितत्वेऽपि जगद्भेदे प्रतिष्ठितत्वाद्विरुध्यत इति पूर्वपक्षयति -
भोक्त्रापत्तेरिति ।
विरोधादद्वैतासिद्धिः पूर्वपक्षफलम् , सिद्धान्ते तत्सिद्धिरिति भेदः ।
अनपेक्षश्रुत्या स्वार्थनिर्णयात्तर्केणाक्षेपो न युक्त इत्युक्तमिति शङ्कते -
यद्यपीति ।
मानान्तरायोग्यश्रुत्यर्थे भवत्यनाक्षेपः ।
यस्त्वद्वितीयब्रह्माभेदाद्भूजलादीनामभेदो ब्रह्मोपादानकत्वश्रुतिविषयः स 'आदित्यो यूपः' इत्यर्थवादार्थवन्मानान्तरयोग्य एवेति द्वैतप्रमाणैरपह्रियत इति समाधत्ते -
तथापीति ।
अन्यपरत्वं गौणार्थकत्वम् ।
स्वविषये जगद्भेदे तर्कस्य प्रतिष्ठितत्वात्तेनाक्षेप इत्याह -
तर्कोऽपीति ।
तर्कादेर्द्वैते प्रामाण्येऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते -
किमत इति ।
पूर्वपक्षी समाधत्ते -
अत इति ।
तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुतेरयुक्तमित्यद्वैतसमन्वयबाधो युक्त इत्यर्थः ।
इयमर्थं शङ्कापूर्वकं स्फुटयति -
कथमित्यादिना ।
ननु भोक्तृभोग्ययोर्मिथ एकत्वं केनोक्तमित्याशङ्क्य श्रुतार्थापत्त्येत्याह -
तयोश्चेति ।
तयोरेकब्रह्माभेदश्रवणादेकत्वं कल्प्यते, एकस्मादभिन्नयोर्भेदे एकस्यापि भेदापत्तेः । ततश्च भेदो बाध्येतेत्यर्थः ।
इष्टापत्तिं वारयति -
न चास्येति ।
श्रुतेर्गौणार्थत्वेन सावकाशत्वान्निरवकाशद्वैतमानबाधो न युक्त इत्यर्थः ।
ननु विभागस्याधुनिकत्वादनाद्यद्वैतश्रुत्या बाध इत्यत आह -
यथेति ।
अतीतानागतकालौ भोक्त्रादिविभागाश्रयौ, कालत्वात् , वर्तमानकालवदित्यनुमानाद्विभागोऽनाद्यनन्त इत्यर्थः ।
एवं प्राप्ते परिणामदृष्टान्तेनापाततः सिद्धान्तमाह -
स्याल्लोकवदिति ।
दृष्टान्तेऽपि कथमेकसमुद्राभिन्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्येकस्मादभिन्नत्वमित्याशङ्क्य न हि दृष्टेनुपपत्तिरिति न्यायेनाह -
न चेति ।
एवं भोक्तृभोग्ययोर्मिथो भेदो ब्रह्माभेदश्चेत्याह -
एवमिहेति ।
जीवस्य ब्रह्मविकारत्वाभावाद्दृष्टान्तवैषम्यमिति शङ्कते -
यद्यपीति ।
औपाधिकं जन्मास्तीति तरङ्गादिसाम्यमाह -
तथापीति ।
विभागो जन्म । यद्वा तथापीतिशब्देनैवोक्तः परिहारः ।
ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह -
कार्यमनुप्रविष्टस्येति ।
औपाधिकविभागे फलितमुपसंहरति -
इत्यत इति ।
एकब्रह्माभिन्नत्वेऽपि भोक्त्रादेस्तरङ्गादिवद्भेदाङ्गीकारान्न द्वैतमानेनाद्वैतसमन्वयस्य विरोध इत्यर्थः ॥१३॥