ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
भावे चोपलब्धेः ॥ १५ ॥
इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावेतद्यथासत्यां मृदि घट उपलभ्यते, सत्सु तन्तुषु पटः नियमेनान्यभावेऽन्यस्योपलब्धिर्दृष्टा ह्यश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते कुलालभाव एव घट उपलभ्यते, सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात्नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येतिनेत्युच्यते; उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात्अथ धूमं कयाचिदवस्थया विशिंष्यात्ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्चिद्दोषःतद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः चासावग्निधूमयोर्विद्यतेभावाच्चोपलब्धेःइति वा सूत्रम् केवलं शब्दादेव कार्यकारणयोरनन्यत्वम् , प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थःभवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वेतद्यथातन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवः, अंशुषु तदवयवाःअनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि, ततो वायुमात्रमाकाशमात्रं चेत्यनुमेयम् , ततः परं ब्रह्मैकमेवाद्वितीयम्तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ १५ ॥

एवं तदनन्यत्वे प्रत्यक्षादिविरोधं परिहृत्यानुमानमाह -

भावे चेति ।

कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः । घटो मृदनन्यः, मृत्सत्त्वोपलब्धिक्षणनियतसत्त्वोपलब्धिमत्त्वात्मृद्वत् ।

अन्यत्वेऽप्ययं हेतुः किं न स्यादित्यप्रयोजकत्वमाशङ्क्य निरस्यति -

न चेति ।

मृद्घटयोरन्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः । गवाश्वयोर्निमित्तनैमित्तिकत्वाभावाद्धेत्वभावः ।

अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नानन्यत्वमित्यर्थान्तरतामाशङ्कायह -

न च कुलालेति ।

न चोपादानोपादेयभावेनार्थान्तरता, मृद्दृष्टान्ते तद्भावाभावेऽपि हेतुसत्त्वादन्यत्वे गवाश्ववत्तद्भावायोगाच्चेति भावः । कुलालघटयोर्निमित्तादिभावे सत्यप्यन्यत्वात् कुलालसत्त्वनियतोपलब्धिर्घटस्य नैवेत्यक्षरार्थः ।

यथाश्रुतसूत्रस्थहेतोर्व्यभिचारं शङ्कते -

नन्विति ।

अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह -

नेति ।

अविच्छिन्नमूलदीर्धरेखावस्थधूमे नियमोऽस्तीति व्यभिचार इत्याशङ्कते -

अथेति ।

तद्भावनियतभावत्वे सति तद्बुद्ध्यनुरक्तबुद्धिविषयत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याह -

नैवमिति ।

आलोकबुद्ध्यनुरक्तबुद्धिग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् । आलोकाभावेऽपि घटादिरूपसत्त्वान्न व्यभिचारः । उक्तधूमविशेषस्याग्निबुद्धिं विनाप्युपलम्भान्न तत्र व्यभिचार इत्यर्थः । तथा च तयोः कार्यकारणयोर्भावेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः । यद्वा । तद्भावः सामानाधिकरण्यं तद्विषयकबुद्धिग्राह्यत्वं हेतुं वदामः । मृद्घट इति सामानाधिकरण्यबुद्धिदर्शनादग्निधूर्म इत्यदर्शनादित्यर्थः ।

अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे -

भावाच्चेति ।

पूर्वसूत्रोक्तारम्भणशब्दसमुच्चयार्थश्चकारः । न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणम् , अपृथक्सत्ताकमिथ्याकार्यविषयत्वेनाप्युपपत्तेः । अत आतानवितानसंयोगवन्तस्तन्तव एव पट इति प्रत्यक्षोपलब्धेः सत्त्वादनन्यत्वमित्यर्थः ।

पटन्यायं तन्त्वादावतिदिशति -

तथेत्यादिना ।

प्रत्यक्षोपलब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः ।

यत्र प्रत्यक्षं नास्ति तत्र कार्ये विमतकारणादभिन्नम् , कार्यत्वात् , पटवदित्यनुमेयमित्याह -

अनयेति ।

कारणपरिशेषे प्रधानादिकं परिशिष्यताम् , न ब्रह्मेत्यत आह -

तत्र सर्वेति ।

ब्रह्मणि वेदान्तानां सर्वेषां तात्पर्यस्योक्तत्वात्तदेवाद्वितीयं परिशिष्यते न कारणान्तरमप्रामाणिकत्वादिति भावः ॥१५॥