ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
सत्त्वाच्चावरस्य ॥ १६ ॥
इतश्च कारणात्कार्यस्यानन्यत्वम् , यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयतेसदेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । १) आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. आ. १ । १ । १) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात्यच्च यदात्मना यत्र वर्तते, तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम्तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यतेयथा कारणं ब्रह्म त्रिषु कालेषु सत्त्वं व्यभिचरति, एवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं व्यभिचरतिएकं पुनः सत्त्वम्अतोऽप्यनन्यत्वं कारणात्कार्यस्य ॥ १६ ॥

इदं जगत्सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतम् , तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारः -

सत्त्वाच्चेति ।

श्रुत्यर्थे युक्तिमप्याह -

यच्च यदात्मनेति ।

घटादिकं प्राग्मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात्सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः ।

कारणवत्कार्यस्यापि सत्त्वात्सत्त्वभेदे मानाभावात्कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह -

यथा चेति ।

इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात्सत्त्वाव्यभिचारः । तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् । तदभेदेन सती मृत्सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः ॥१६॥ न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यम् , वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् । तर्हि मृद्घटयोः को विशेषः । तादात्म्यमिति ब्रूमः । वस्तुतः सर्वत्र सत्तैक्येऽपि घटपटयोर्भेदेन सत्ताया भिन्नत्वान्न तादात्म्यम् , कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः ॥१६॥