इदं जगत्सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतम् , तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारः -
सत्त्वाच्चेति ।
श्रुत्यर्थे युक्तिमप्याह -
यच्च यदात्मनेति ।
घटादिकं प्राग्मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात्सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः ।
कारणवत्कार्यस्यापि सत्त्वात्सत्त्वभेदे मानाभावात्कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह -
यथा चेति ।
इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात्सत्त्वाव्यभिचारः । तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् । तदभेदेन सती मृत्सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः ॥१६॥ न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यम् , वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् । तर्हि मृद्घटयोः को विशेषः । तादात्म्यमिति ब्रूमः । वस्तुतः सर्वत्र सत्तैक्येऽपि घटपटयोर्भेदेन सत्ताया भिन्नत्वान्न तादात्म्यम् , कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः ॥१६॥