ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिःअसदेवेदमग्र आसीत्’ (छा. उ. ३ । १९ । १) इति, असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इति तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत्नेति ब्रूमः ह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः; किं तर्हि ? — व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरम्; तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्यकथमेतदवगम्यते ? वाक्यशेषात्यदुपक्रमे सन्दिग्धार्थं वाक्यं तच्छेषान्निश्चीयतेइह तावत्असदेवेदमग्र आसीत्इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत् , तदेव पुनस्तच्छब्देन परामृश्य, सदिति विशिनष्टि — ‘तत्सदासीत्इतिअसतश्च पूर्वापरकालासम्बन्धात् आसीच्छब्दानुपपत्तेश्चअसद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इत्यत्रापि तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम्तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्यनामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम्अतः प्राङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते ॥ १७ ॥

उक्तं कार्यस्य प्राक्कारणात्मना सत्त्वमसिद्धमित्याशङ्क्य समाधत्ते -

असदिति ।

'अक्ताः शर्करा उपदध्यात्' इत्युपक्रमे केनाक्ता इति सन्देहे 'तेजो वै घृतम्' इति वाक्यशेषाद्धृतेनेति यथा निश्चयः, एवमत्रापि 'तत्सत्' इति वाक्यशेषात्सन्निश्चय इत्यर्थः ।

आसीदित्यतीतकालसम्बन्धोक्तेश्चासदव्याकृतमेव न शून्यमित्याह -

असतश्च पूर्वापरेति ।

उक्तन्यायं वाक्यान्तरेऽतिदिशति -

असद्वेति ।

क्रियमाणत्वविशेषणं शून्यस्यासम्भवीति भावः ॥१७॥