ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
युक्तेः शब्दान्तराच्च ॥ १८ ॥
युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं कारणादवगम्यते, शब्दान्तराच्च

सत्त्वानन्यत्वयोर्हेत्वन्तरमाह सूत्रकारः -

युक्तेरिति ।

दध्याद्यर्थिनां क्षीरादौ प्रवृत्त्यन्यथानुपपत्तिर्युक्तिस्तया कार्यस्य प्राक्कारणानन्यत्वेन सत्त्वं सिध्यतीत्यर्थः ।