असतोऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह -
अविशिष्टे हीति ।
असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः । तदुक्तं साङ्ख्यवृद्धैः 'असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्' इति । शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतोऽशक्यत्वात् । किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः ।
कार्यस्यासत्त्वेऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते -
अथेति ।
अतिशयः कार्यधर्मः कारणधर्मो वा ।
आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह -
तर्ह्यतिशयवत्त्वादिति ।
द्वितीयेऽपि कार्यसत्त्वमायातीत्याह -
शक्तिश्चेति ।
कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् । तस्मात्कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यम् , ततः सत्कार्यसिद्धिरित्यर्थः ।
किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह -
अपि चेति ।
तयोरन्यत्वेऽपि समवायवशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति -
समवायेति ।
समवायः समवायिभिः सम्बद्धोन न वा । आद्ये स सम्बन्धः किं समवायः उत स्वरूपम् । आद्ये समवायानवस्था । द्वितीये मृद्घटयोरपि स्वरूपसम्बन्धादेवोपपत्तेः समवायासिद्धिः ।
असम्बद्ध इति पक्षे दोषमाह -
अनभ्युपगम्यमान इति ।
द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः । असम्बद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः ।
विशिष्टधीनियामको हि सम्बन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात् , अतः स्वपरनिर्वाहकः समवाय इति शङ्कते -
अथेति ।
सम्बध्यते । स्वस्य स्वसम्बन्धिनश्च विशिष्टधियं करोतीत्यर्थः ।
प्रतिबन्द्या दूषयति -
संयोगोऽपीति ।
यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न सम्बन्धत्वादिति, तन्न, धर्मत्वात् समवायस्यापि सम्बन्धान्तरापत्तेरसम्बद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् । किञ्च 'निष्पापत्वादयो गुणाः' इति श्रुतिस्मृत्यादिषु 'व्यवहारादिष्टधर्मो गुणः' इति परिभाषया समायस्यापि गुणत्वाच्च । 'जातिविशेषो गुणत्वम्' इति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् । अतः समवायसिद्धेः प्राक्संयोगस्य गुणत्वमसिद्धमिति दिक् । किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् ।
तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासम्भवादित्याह -
तादात्म्येति ।
एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वम् , स्वरूपेण तु मिथ्यात्मेत्युक्तम् ।
वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह -
कथं चेति ।
तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति -
यदीत्यादिना ।
व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात्संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः ।
द्वितीयं शङ्कते -
अथेति ।
यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहेऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसम्भवेऽप्यवयवानामनवस्था स्यादिति दूषयति -
तदापीति ।
आद्यद्वितीयमुद्भाव्य दूषयति -
अथ प्रत्यवयवमित्यादिना ।
एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात् , वृत्तावनेकत्वापत्तेरित्यर्थः ।
यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते -
गोत्वेति ।
जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति -
न, तथेति ।
दोषान्तरमाह -
प्रत्येकेति ।
अधिकारात्सम्बन्धात् । यथा देवदत्तः स्वकार्यमध्ययनं ग्रामेऽरण्ये वा करोति, तथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः । एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् ।
सम्प्रत्यसत्कार्यवादे दोषान्तरमाह -
प्रागिति ।
यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते । अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् । कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः ।
जनेरनुभवसिद्धेऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह -
उत्पत्तिश्चेति ।
असतो घटस्योत्पत्तौ कर्तृत्वासम्भवेऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह -
घटस्य चेति ।
घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति -
तथेति ।
शङ्कामनूद्य दोषमाह -
तथा चेति ।
अनुभवविरोध इत्यर्थः ।
उत्पत्तिर्भावस्याद्याविक्रियेति स्वमतेन कार्यसत्त्वमानीतम् , सम्प्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते -
अथेति ।
तन्मतेनापि कार्यस्य सत्त्वमावश्यकम् , असतः सम्बन्धित्वायोगादित्याह -
कथमिति ।
असतोर्वेति दृष्टान्तोक्तिः ।
ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक्ध्वंसानन्तरं चासत्मध्ये तु सदेवेति वैषम्यात्सम्बन्धित्वोपपत्तिरित्याशङ्क्याह -
अभावस्येति ।
अत्राभावशब्दा असच्छब्दापरपर्याया व्याख्येयाः । असतः कालेनासम्बन्धात्प्राक्त्वं न युक्तमित्यर्थः ।
ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह -
यदि चेति ।
कार्याभावोऽसत्कार्यमित्यर्थ इत्युपापत्स्यत उपपन्नमभविष्यदित्यन्वयः ।
कस्तर्हि निर्णयः, तत्राह -
वयं त्विति ।
'नासतो विद्यते भावः' इति स्मृतेरिति भावः ।
सत्कार्यवादे कारकवैयर्थ्यं शङ्कते -
नन्विति ।
सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह -
तदनन्यत्वाच्चेति ।
अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह -
नैष दोष इति ।
कार्यसत्यत्वमिच्छतां साङ्ख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् । अद्वैतवादिनां त्वघटितघठनावभासन चतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् । विचार्यमाणे सर्वमयुक्तम् , युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् ।
ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह -
कार्याकारोऽपीति ।
अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः ।
ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते । तथा च घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात् , वृक्षवदित्यत आह -
न चेति ।
वस्तुतोऽन्यत्वं सत्यो भेदः ।
हेतोर्व्यभिचारस्थलान्तरमाह -
तथा प्रतिदिनमिति ।
प्रत्यहं पित्रादिदेहस्यावस्थाभेदेऽपि जन्मनाशयोरभावादभेदो युक्तः ।
दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते -
जन्मेति ।
कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति -
नेति ।
दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः ।
ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह -
अदृश्येति ।
तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः ।
अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततोऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह -
तत्रेदृगिति ।
पितृदेहेऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह -
पित्रादीति ।
एतेनेति ।
कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः ।
स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति -
यस्य पुनरिति ।
असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वेऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते -
समवायीति ।
समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति -
नेत्यादिना ।
द्वितीयमाशङ्क्येष्टापत्तिमाह -
समवायीति ।
कार्याणामवान्तरकारणानन्यत्वमुपसंहरति -
तस्मादिति ।
परमकारणानन्यत्वं फलितमाह -
तथा मूलेति ।