ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
युक्तेः शब्दान्तराच्च ॥ १८ ॥
युक्तिस्तावद्वर्ण्यतेदधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते हि दध्यर्थिभिर्मृत्तिकोपादीयते, घटार्थिभिः क्षीरम्तदसत्कार्यवादे नोपपद्येतअविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते, मृत्तिकायाः, मृत्तिकाया एव घट उत्पद्यते, क्षीरात् ? अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो मृत्तिकायाम् , मृत्तिकायामेव घटस्य कश्चिदतिशयो क्षीरेइत्युच्येततर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः, सत्कार्यवादसिद्धिश्चशक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत् , असत्त्वाविशेषादन्यत्वाविशेषाच्चतस्मात्कारणस्यात्मभूता शक्तिः, शक्तेश्चात्मभूतं कार्यम्अपि कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम्समवायकल्पनायामपि, समवायस्य समवायिभिः सम्बन्धेऽभ्युपगम्यमाने, तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गःअनभ्युपगम्यमाने विच्छेदप्रसङ्गःअथ समवायः स्वयं सम्बन्धरूपत्वादनपेक्ष्यैवापरं सम्बन्धं सम्बध्येत, संयोगोऽपि तर्हि स्वयं सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येततादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम्कथं कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तेत ? किं समस्तेष्ववयवेषु वर्तेत, उत प्रत्यवयवम् ? यदि तावत्समस्तेषु वर्तेत, ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्याशक्यत्वात् हि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यतेअथावयवशः समस्तेषु वर्तेत, तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन् , यैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेतकोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोतिअनवस्था चैवं प्रसज्येत, तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवयवानां कल्पनीयत्वात्अथ प्रत्यवयवं वर्तेत, तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात् हि देवदत्तः स्रुघ्ने सन्निधीयमानस्तदहरेव पाटलिपुत्रेऽपि सन्निधीयतेयुगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् , देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोःगोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् , ; तथा प्रतीत्यभावात्यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात् , यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते, एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत चैवं नियतं गृह्यतेप्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात् , तस्य चैकत्वात् , शृङ्गेणापि स्तनकार्यं कुर्यात् , उरसा पृष्ठकार्यम् चैवं दृश्यतेप्रागुत्पत्तेश्च कार्यस्यासत्त्वे, उत्पत्तिरकर्तृका निरात्मिका स्यात्उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति, गत्यादिवत्क्रिया नाम स्यात् , अकर्तृका इति विप्रतिषिध्येतघटस्य चोत्पत्तिरुच्यमाना घटकर्तृकाकिं तर्हि ? अन्यकर्तृकाइति कल्प्या स्यात्तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येततथा सतिघट उत्पद्यतेइत्युक्ते, ‘कुलालादीनि कारणान्युत्पद्यन्तेइत्युक्तं स्यात् लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते, उत्पन्नताप्रतीतेश्चअथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत्कथमलब्धात्मकं सम्बध्येतेति वक्तव्यम्सतोर्हि द्वयोः सम्बन्धः सम्भवति, सदसतोरसतोर्वाअभावस्य निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम्सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यापुत्रः राजा बभूव भवति भविष्यतीति वा विशेष्यतेयदि वन्ध्यापुत्रोऽपि कारकव्यापारादूर्ध्वमभविष्यत् , तत इदमप्युपापत्स्यतकार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीतिवयं तु पश्यामःवन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषात् , यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं भविष्यति, एवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीतिनन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येतयथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये कश्चिद्व्याप्रियते, एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि कश्चिद्व्याप्रियेतव्याप्रियते अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभावः कार्यस्येति नैष दोषःयतः कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यतेकार्याकारोऽपि कारणस्यात्मभूत एव, अनात्मभूतस्यानारभ्यत्वात्इत्यभाणि विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति हि देवदत्तः सङ्कोचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, एवेति प्रत्यभिज्ञानात्तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात्जन्मोच्छेदानन्तरितत्वात्तत्र युक्तम् , नान्यत्रेति चेत् , ; क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात्अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञातेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञातत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वापत्तिः, सतश्चासत्त्वापत्तिः, तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गःतथा बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्चएतेन क्षणभङ्गवादः प्रतिवदितव्यःयस्य पुनः प्रागुत्पत्तेरसत्कार्यम् , तस्य निर्विषयः कारकव्यापारः स्यात् , अभावस्य विषयत्वानुपपत्तेःआकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत्समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् , ; अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात्समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् , ; सत्कार्यतापत्तेःतस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम्तथा मूलकारणमेव अन्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यतेएवं युक्तेः, कार्यस्य प्रागुत्पत्तेः सत्त्वम् , अनन्यत्वं कारणात् , अवगम्यते

असतोऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह -

अविशिष्टे हीति ।

असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः । तदुक्तं साङ्ख्यवृद्धैः 'असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्' इति । शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतोऽशक्यत्वात् । किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः ।

कार्यस्यासत्त्वेऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते -

अथेति ।

अतिशयः कार्यधर्मः कारणधर्मो वा ।

आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह -

तर्ह्यतिशयवत्त्वादिति ।

द्वितीयेऽपि कार्यसत्त्वमायातीत्याह -

शक्तिश्चेति ।

कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् । तस्मात्कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यम् , ततः सत्कार्यसिद्धिरित्यर्थः ।

किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह -

अपि चेति ।

तयोरन्यत्वेऽपि समवायवशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति -

समवायेति ।

समवायः समवायिभिः सम्बद्धोन न वा । आद्ये स सम्बन्धः किं समवायः उत स्वरूपम् । आद्ये समवायानवस्था । द्वितीये मृद्घटयोरपि स्वरूपसम्बन्धादेवोपपत्तेः समवायासिद्धिः ।

असम्बद्ध इति पक्षे दोषमाह -

अनभ्युपगम्यमान इति ।

द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः । असम्बद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः ।

विशिष्टधीनियामको हि सम्बन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात् , अतः स्वपरनिर्वाहकः समवाय इति शङ्कते -

अथेति ।

सम्बध्यते । स्वस्य स्वसम्बन्धिनश्च विशिष्टधियं करोतीत्यर्थः ।

प्रतिबन्द्या दूषयति -

संयोगोऽपीति ।

यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न सम्बन्धत्वादिति, तन्न, धर्मत्वात् समवायस्यापि सम्बन्धान्तरापत्तेरसम्बद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् । किञ्च 'निष्पापत्वादयो गुणाः' इति श्रुतिस्मृत्यादिषु 'व्यवहारादिष्टधर्मो गुणः' इति परिभाषया समायस्यापि गुणत्वाच्च । 'जातिविशेषो गुणत्वम्' इति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् । अतः समवायसिद्धेः प्राक्संयोगस्य गुणत्वमसिद्धमिति दिक् । किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् ।

तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासम्भवादित्याह -

तादात्म्येति ।

एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वम् , स्वरूपेण तु मिथ्यात्मेत्युक्तम् ।

वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह -

कथं चेति ।

तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति -

यदीत्यादिना ।

व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात्संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः ।

द्वितीयं शङ्कते -

अथेति ।

यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहेऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसम्भवेऽप्यवयवानामनवस्था स्यादिति दूषयति -

तदापीति ।

आद्यद्वितीयमुद्भाव्य दूषयति -

अथ प्रत्यवयवमित्यादिना ।

एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात् , वृत्तावनेकत्वापत्तेरित्यर्थः ।

यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते -

गोत्वेति ।

जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति -

न, तथेति ।

दोषान्तरमाह -

प्रत्येकेति ।

अधिकारात्सम्बन्धात् । यथा देवदत्तः स्वकार्यमध्ययनं ग्रामेऽरण्ये वा करोति, तथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः । एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् ।

सम्प्रत्यसत्कार्यवादे दोषान्तरमाह -

प्रागिति ।

यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते । अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् । कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः ।

जनेरनुभवसिद्धेऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह -

उत्पत्तिश्चेति ।

असतो घटस्योत्पत्तौ कर्तृत्वासम्भवेऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह -

घटस्य चेति ।

घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति -

तथेति ।

शङ्कामनूद्य दोषमाह -

तथा चेति ।

अनुभवविरोध इत्यर्थः ।

उत्पत्तिर्भावस्याद्याविक्रियेति स्वमतेन कार्यसत्त्वमानीतम् , सम्प्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते -

अथेति ।

तन्मतेनापि कार्यस्य सत्त्वमावश्यकम् , असतः सम्बन्धित्वायोगादित्याह -

कथमिति ।

असतोर्वेति दृष्टान्तोक्तिः ।

ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक्ध्वंसानन्तरं चासत्मध्ये तु सदेवेति वैषम्यात्सम्बन्धित्वोपपत्तिरित्याशङ्क्याह -

अभावस्येति ।

अत्राभावशब्दा असच्छब्दापरपर्याया व्याख्येयाः । असतः कालेनासम्बन्धात्प्राक्त्वं न युक्तमित्यर्थः ।

ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह -

यदि चेति ।

कार्याभावोऽसत्कार्यमित्यर्थ इत्युपापत्स्यत उपपन्नमभविष्यदित्यन्वयः ।

कस्तर्हि निर्णयः, तत्राह -

वयं त्विति ।

'नासतो विद्यते भावः' इति स्मृतेरिति भावः ।

सत्कार्यवादे कारकवैयर्थ्यं शङ्कते -

नन्विति ।

सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह -

तदनन्यत्वाच्चेति ।

अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह -

नैष दोष इति ।

कार्यसत्यत्वमिच्छतां साङ्ख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् । अद्वैतवादिनां त्वघटितघठनावभासन चतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् । विचार्यमाणे सर्वमयुक्तम् , युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् ।

ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह -

कार्याकारोऽपीति ।

अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः ।

ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते । तथा च घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात् , वृक्षवदित्यत आह -

न चेति ।

वस्तुतोऽन्यत्वं सत्यो भेदः ।

हेतोर्व्यभिचारस्थलान्तरमाह -

तथा प्रतिदिनमिति ।

प्रत्यहं पित्रादिदेहस्यावस्थाभेदेऽपि जन्मनाशयोरभावादभेदो युक्तः ।

दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते -

जन्मेति ।

कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति -

नेति ।

दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः ।

ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह -

अदृश्येति ।

तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः ।

अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततोऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह -

तत्रेदृगिति ।

पितृदेहेऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह -

पित्रादीति ।

एतेनेति ।

कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः ।

स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति -

यस्य पुनरिति ।

असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वेऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते -

समवायीति ।

समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति -

नेत्यादिना ।

द्वितीयमाशङ्क्येष्टापत्तिमाह -

समवायीति ।

कार्याणामवान्तरकारणानन्यत्वमुपसंहरति -

तस्मादिति ।

परमकारणानन्यत्वं फलितमाह -

तथा मूलेति ।