मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
युक्तेः शब्दान्तराच्च ॥ १८ ॥
शब्दान्तराच्चैतदवगम्यते
—
पूर्वसूत्रेऽसद्व्यपदेशिनः
शब्दस्योदाहृतत्वात्ततोऽन्यः
सद्व्यपदेशी
शब्दः
शब्दान्तरम्
—
‘
सदेव
सोम्येदमग्र
आसीदेकमेवाद्वितीयम्
’ (छा. उ. ६ । २ । १)
इत्यादि
। ‘
तद्धैक
आहुरसदेवेदमग्र
आसीत्
’
इति
चासत्पक्षमुपक्षिप्य
, ‘
कथमसतः
सज्जायेत
’
इत्याक्षिप्य
, ‘
सदेव
सोम्येदमग्र
आसीत्
’
इत्यवधारयति
।
तत्रेदंशब्दवाच्यस्य
कार्यस्य
प्रागुत्पत्तेः
सच्छब्दवाच्येन
कारणेन
सामानाधिकरण्यस्य
श्रूयमाणत्वात्
,
सत्त्वानन्यत्वे
प्रसिध्यतः
।
यदि
तु
प्रागुत्पत्ते
रसत्कार्यं
स्यात्
,
पश्चाच्चोत्पद्यमानं
कारणे
समवेयात्
,
तदान्यत्कारणात्स्यात्
,
तत्र
‘
येनाश्रुतꣳ
श्रुतं
भवति
’ (छा. उ. ६ । १ । ३)
इतीयं
प्रतिज्ञा
पीड्येत
।
सत्त्वानन्यत्वावगतेस्त्वियं
प्रतिज्ञा
समर्थ्यते
॥ १८ ॥
यदि तु प्रागुत्पत्तेरिति ॥१८॥
;
असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह -
यदि तु प्रागुत्पत्तेरिति ॥१८॥