ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
पटवच्च ॥ १९ ॥
यथा संवेष्टितः पटो व्यक्तं गृह्यतेकिमयं पटः, किं वान्यद्द्रव्यमिति एव प्रसारितः, यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यतेयथा संवेष्टनसमये पट इति गृह्यमाणोऽपि विशिष्टायामविस्तारो गृह्यते एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते संवेष्टितरूपादन्योऽयं भिन्नः पट इति, एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् , तुरीवेमकुविन्दादिकारकव्यापारादभिव्यक्तं स्पष्टं गृह्यतेअतः संवेष्टितप्रसारितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः ॥ १९ ॥

कार्यमुपादानाद्भिन्नं तदुपलब्धावप्यनुपलभ्यमानत्वात्ततोऽधिकपरिमाणत्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम् -

पटवच्चेति ।

द्वितीयहेतोर्व्यभिचारं स्फुटयति -

यथा च संवेष्टनेति ।

आयामो दैर्घ्यम् ॥१९॥