उपसंहारदर्शनात् ।
असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति सन्देहे पूर्वमौपाधिकजीवभेदाद्ब्रह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम् , सम्प्रति उपाधितोऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईशनानात्वाभावादिति प्रत्युदाहरणेन पूर्वपक्षसूत्रांशं व्याचष्टे -
चेतनमित्यादिना ।
फलं पूर्ववत् । कारकाणामुपसंहारो मेलनम् ।
उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति -
नैष दोष इति ।
शुद्धस्य ब्रह्मणोऽकारणत्वमिष्टमेव ।
विशिष्टस्येश्वरस्य तु मायैव सहाय इति भावेनाह -
बाह्यमिति ।
क्षीरस्याप्यातञ्चनादिसहायोऽस्तीत्यसहायत्वहेतोर्न व्यभिचार इत्याशङ्क्य सहायाभावेऽपि यस्य कस्यचित्परिणामस्य क्षीरे दर्शनाद्व्यभिचारतादवस्थ्यमित्याह -
नन्वित्यादिना ।
तर्हि सहायो व्यर्थः, तत्राह -
त्वार्यत इति ।
ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतोऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात् , तत्राह -
यदि चेति ।
शक्तस्य सहायसम्पदा किं कार्यमित्यत्राह -
साधनेति ।
सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आतञ्चनप्रक्षेपौष्ण्याभ्यां तूत्तमदधिभावसामर्थ्यं व्यज्यत इत्यर्थः ।
तर्हि शक्तिव्यञ्जकोऽपि सहायो ब्रह्मणो वाच्यः, तत्राह -
परिपूर्णेति ।
निरपेक्षमायाशक्तिकमित्यर्थः ।
तादृशशक्तौ मानमाह -
श्रुतिश्चेति ॥२४॥