ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥
चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तम् , तन्नोपपद्यतेकस्मात् ? उपसंहारदर्शनात्इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्रसलिलाद्यनेककारकोपसंहारेण सङ्गृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्तेब्रह्म चासहायं तवाभिप्रेतम्तस्य साधनान्तरानुपसङ्ग्रहे सति कथं स्रष्टृत्वमुपपद्येत ? तस्मान्न ब्रह्म जगत्कारणमिति चेत् , नैष दोषःयतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यतेयथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनम् , तथेहापि भविष्यतिननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्यं साधनमौष्ण्यादिकम्कथमुच्यतेक्षीरवद्धिइति ? नैष दोषःस्वयमपि हि क्षीरं यां यावतीं परिणाममात्रामनुभवत्येवत्वार्यते त्वौष्ण्यादिना दधिभावाययदि स्वयं दधिभावशीलता स्यात् , नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत हि वायुराकाशो वा औष्ण्यादिना बलाद्दधिभावमापद्यतेसाधनसामग्र्या तस्य पूर्णता सम्पाद्यतेपरिपूर्णशक्तिकं तु ब्रह्म तस्यान्येन केनचित्पूर्णता सम्पादयितव्याश्रुतिश्च भवति तस्य कार्यं करणं विद्यते तत्समश्चाभ्यधिकश्च दृश्यतेपरास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया ’ (श्वे. उ. ६ । ८) इतितस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात् क्षीरादिवद्विचित्रपरिणाम उपपद्यते ॥ २४ ॥

उपसंहारदर्शनात् ।

असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।

स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति सन्देहे पूर्वमौपाधिकजीवभेदाद्ब्रह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम् , सम्प्रति उपाधितोऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईशनानात्वाभावादिति प्रत्युदाहरणेन पूर्वपक्षसूत्रांशं व्याचष्टे -

चेतनमित्यादिना ।

फलं पूर्ववत् । कारकाणामुपसंहारो मेलनम् ।

उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति -

नैष दोष इति ।

शुद्धस्य ब्रह्मणोऽकारणत्वमिष्टमेव ।

विशिष्टस्येश्वरस्य तु मायैव सहाय इति भावेनाह -

बाह्यमिति ।

क्षीरस्याप्यातञ्चनादिसहायोऽस्तीत्यसहायत्वहेतोर्न व्यभिचार इत्याशङ्क्य सहायाभावेऽपि यस्य कस्यचित्परिणामस्य क्षीरे दर्शनाद्व्यभिचारतादवस्थ्यमित्याह -

नन्वित्यादिना ।

तर्हि सहायो व्यर्थः, तत्राह -

त्वार्यत इति ।

ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतोऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात् , तत्राह -

यदि चेति ।

शक्तस्य सहायसम्पदा किं कार्यमित्यत्राह -

साधनेति ।

सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आतञ्चनप्रक्षेपौष्ण्याभ्यां तूत्तमदधिभावसामर्थ्यं व्यज्यत इत्यर्थः ।

तर्हि शक्तिव्यञ्जकोऽपि सहायो ब्रह्मणो वाच्यः, तत्राह -

परिपूर्णेति ।

निरपेक्षमायाशक्तिकमित्यर्थः ।

तादृशशक्तौ मानमाह -

श्रुतिश्चेति ॥२४॥