ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
देवादिवदपि लोके ॥ २५ ॥
स्यादेतत्उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात्चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्तेकथं ब्रह्म चेतनं सत् असहायं प्रवर्तेतेतिदेवादिवदिति ब्रूमःयथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि निर्मिमाणा उपलभ्यन्ते, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात्तन्तुनाभश्च स्वत एव तन्तून्सृजतिबलाका चान्तरेणैव शुक्रं गर्भं धत्तेपद्मिनी चानपेक्ष्य किञ्चित्प्रस्थानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठतेएवं चेतनमपि ब्रह्म अनपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति यदि ब्रूयात् एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा समाना भवन्तिशरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादने उपादानम् तु चेतन आत्मातन्तुनाभस्य क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवतिबलाका स्तनयित्नुरवश्रवणाद्गर्भं धत्तेपद्मिनी चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरोन्तरात्सरोन्तरमुपसर्पति, वल्लीव वृक्षम् तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियतेतस्मान्नैते ब्रह्मणो दृष्टान्ता इतितं प्रति ब्रूयात्नायं दोषःकुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादितियथा हि कुलालादीनां देवादीनां समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते, देवादयःतथा ब्रह्म चेतनमपि बाह्यं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामःतस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः ॥ २५ ॥

ननु ब्रह्म न कारणं चेतनत्वे सत्यसहायत्वान्मृदादिशून्यकुलालादिवदिति न क्षीरादौ व्यभिचार इति सूत्रव्यावर्त्यां शङ्कामाह -

स्यदेतदिति ।

तस्यापि हेतोर्देवादौ व्यभिचार इत्याह -

देवादिवदिति ।

लोक्यते ज्ञायतेऽर्थोऽनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च । अभिध्यानं सङ्कल्पः ।

ननु देवाद्यूर्णनाभान्तदृष्टान्तेषु शरीरेषु चेतनत्वं नास्ति, बलाकापद्मिनीचेतनयोर्गर्भप्रस्थानकर्तृत्वे मेघशब्दः शरीरं च सहायोऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते -

स यदि ब्रूयादित्यादिना ।

व्यभिचारोऽस्तीति परिहरति -

तं प्रति ब्रूयादिति ।

अयं दोषः दृष्टान्तवैषम्याख्यः । अत्र हि हेतौ चेतनत्वमहन्धीविषयत्वरूपं चित्तादात्म्यापन्नदेहसाधारणं ग्राह्यं न तु मुख्यात्मत्वम् , तव कुलालदृष्टान्ते साधनवैकल्यापत्तेः । असहायत्वं च चेतनस्य स्वातिरिक्तहेतुशून्यत्वम् , तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तःपातित्वेन स्वातिरिक्तत्वाभावात् । तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वातिरिक्तानपेक्षत्वात् । देववैलक्षण्यं ब्रह्मणः देहस्याप्यनपेक्षणात् । नरदेवादीनां कार्यारम्भे नास्त्येकरूपा सामग्री । श्रूयते हि महाभारते श्रीकृष्णस्य सङ्कल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः । अतः सिद्धमसहायस्यापि ब्रह्मणः कारणत्वम् ॥२५॥