ननु ब्रह्म न कारणं चेतनत्वे सत्यसहायत्वान्मृदादिशून्यकुलालादिवदिति न क्षीरादौ व्यभिचार इति सूत्रव्यावर्त्यां शङ्कामाह -
स्यदेतदिति ।
तस्यापि हेतोर्देवादौ व्यभिचार इत्याह -
देवादिवदिति ।
लोक्यते ज्ञायतेऽर्थोऽनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च । अभिध्यानं सङ्कल्पः ।
ननु देवाद्यूर्णनाभान्तदृष्टान्तेषु शरीरेषु चेतनत्वं नास्ति, बलाकापद्मिनीचेतनयोर्गर्भप्रस्थानकर्तृत्वे मेघशब्दः शरीरं च सहायोऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते -
स यदि ब्रूयादित्यादिना ।
व्यभिचारोऽस्तीति परिहरति -
तं प्रति ब्रूयादिति ।
अयं दोषः दृष्टान्तवैषम्याख्यः । अत्र हि हेतौ चेतनत्वमहन्धीविषयत्वरूपं चित्तादात्म्यापन्नदेहसाधारणं ग्राह्यं न तु मुख्यात्मत्वम् , तव कुलालदृष्टान्ते साधनवैकल्यापत्तेः । असहायत्वं च चेतनस्य स्वातिरिक्तहेतुशून्यत्वम् , तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तःपातित्वेन स्वातिरिक्तत्वाभावात् । तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वातिरिक्तानपेक्षत्वात् । देववैलक्षण्यं ब्रह्मणः देहस्याप्यनपेक्षणात् । नरदेवादीनां कार्यारम्भे नास्त्येकरूपा सामग्री । श्रूयते हि महाभारते श्रीकृष्णस्य सङ्कल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः । अतः सिद्धमसहायस्यापि ब्रह्मणः कारणत्वम् ॥२५॥