ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥
तुशब्देनाक्षेपं परिहरति । न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति । न तावत्कृत्स्नप्रसक्तिरस्ति । कुतः ? श्रुतेः — यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते, एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते — प्रकृतिविकारयोर्भेदेन व्यपदेशात् ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति, ‘तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति चैवंजातीयकात् । तथा हृदयायतनत्ववचनात्; सत्सम्पत्तिवचनाच्च — यदि च कृत्स्नं ब्रह्म कार्यभावेनोपयुक्तं स्यात् , ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् , विकृतेन ब्रह्मणा नित्यसम्पन्नत्वादविकृतस्य च ब्रह्मणोऽभावात् । तथेन्द्रियगोचरत्वप्रतिषेधात् ब्रह्मणो, विकारस्य चेन्द्रियगोचरत्वोपपत्तेः । तस्मादस्त्यविकृतं ब्रह्म । न च निरवयवत्वशब्दकोपोऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् । शब्दमूलं च ब्रह्म शब्दप्रमाणकम् । नेन्द्रियादिप्रमाणकम् । तद्यथाशब्दमभ्युपगन्तव्यम् । शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयति — अकृत्स्नप्रसक्तिं निरवयवत्वं च । लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते । ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते — अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति । किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत । तथा चाहुः पौराणिकाः — ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्’ इति । तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः । ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् — निरवयवं च ब्रह्म परिणमते न च कृत्स्नमिति । यदि निरवयवं ब्रह्म स्यात् , नैव परिणमेत, कृत्स्नमेव वा परिणमेत । अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति, रूपभेदकल्पनात्सावयवमेव प्रसज्येत । क्रियाविषये हि ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाति’ इत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति, पुरुषतन्त्रत्वाच्चानुष्ठानस्य । इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः सम्भवति, अपुरुषतन्त्रत्वाद्वस्तुनः । तस्माद्दुर्घटमेतदिति । नैष दोषः, अविद्याकल्पितरूपभेदाभ्युपगमात् । न ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु सम्पद्यते । न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति । अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते, वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्य — इति न निरवयवत्वं ब्रह्मणः कुप्यति । न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात् । सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिपत्तौ फलावगमात्; ‘स एष नेति नेत्यात्मा’ इत्युपक्रम्याह ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) इति; तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति ॥ २७ ॥

परिणामपक्षो दुर्घट इति यदुक्तं तदस्मदिष्टमेवेति विवर्तवादेन सिद्धान्तयति -

श्रुतेरिति ।

स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति -

तुशब्देनेत्यादिना ।

ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात्पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह -

सेयं देवतेति ।

न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह -

तावानिति ।

इतश्चास्त्यविकृतं ब्रह्मेत्याह -

तथेति ।

'स वा एष आत्मा हृदि' इति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म । 'तदा' इति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः ।

लिङ्गान्तरमाह -

तथेन्द्रियेति ।

भूम्यादेर्विकारस्येन्द्रियगोचरत्वात् 'न चक्षुषा गृह्यते' इत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः ।

कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषोऽपि नास्तीत्याह -

न चेति ।

ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत्सावयवत्वं दुर्वारम् , निरवयवस्यैकस्य द्विधा सत्त्वायोगात् , अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति -

शब्दमूलं चेति ।

यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् । अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् । न तर्केण बाधनीयमित्यर्थः । प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः ।

आशयानवबोधेन शङ्कते -

ननु शब्देनापीति ।

यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति -

नन्विति ।

शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः ।

ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह -

क्रियेति ।

निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति -

नैष दोष इति ।

निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति । वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः ।

रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति -

न हीत्यादिना ।

कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति -

वाचारम्भणेति ।

ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वम् , तत्राह -

न चेयमिति ।

निष्प्रपञ्चब्रह्मधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम् , अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति -

तस्मादिति ॥२७॥