ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥
स्यादेतत्विकरणां परां देवतां शास्ति शास्त्रम्अचक्षुष्कमश्रोत्रमवागमनाः’ (बृ. उ. ३ । ८ । ८) इत्येवंजातीयकम्कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् ? देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसम्पन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्तेकथं नेति नेति’ (बृ. उ. ३ । ९ । २६) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः सम्भवेत् , इति चेत्यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम्श्रुत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म तर्कावगाह्यम् यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीतिप्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेवतथा शास्त्रम्अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति ॥ ३१ ॥

पूर्वपक्षन्यायमनूद्य दूषयति -

विकरणत्वादिति ।

देवादिचेतनानां शक्तानामपि देहाभिमाने सत्येव कर्तृत्वं दृष्टं तदभावे सुषुप्ते तन्न दृष्टम् , अतो ब्रह्मणः शक्तत्वेऽप्यदेहत्वान्न कर्तृत्वम् । नाप्यदेहस्य शक्तिः सम्भवतीति शङ्कार्थः । विकरणस्य जीवस्य कर्तृत्वासम्भवेऽपीश्वरस्य सम्भवतीति, 'देवादिवदपि लोके' इत्यत्रोक्तम् । तत्र शरीरस्य कल्पितस्य मायाश्रयत्वायोगान्निर्विशेषचिन्मात्रस्यैव मायाधिष्ठानत्वं युक्तमिति समाधानार्थः ॥३१॥