ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
न प्रयोजनवत्त्वात् ॥ ३२ ॥
अन्यथा पुनश्चेतनकर्तृकत्वं जगत आक्षिपति — न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति । कुतः ? प्रयोजनवत्त्वात्प्रवृत्तीनाम् । चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्टः, किमुत गुरुतरसंरम्भाम् । भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः — ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २ । ४ । ५) इति । गुरुतरसंरम्भा चेयं प्रवृत्तिः — यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम् । यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत, परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येत । प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात् । अथ चेतनोऽपि सन् उन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टः, तथा परमात्मापि प्रवर्तिष्यते इत्युच्येत — तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत । तस्मादश्लिष्टा चेतनात्सृष्टिरिति ॥ ३२ ॥

न प्रयोजनवत्त्वात् ।

परितृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।

स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति सन्देहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसङ्गत्या पूर्वपक्षसूत्रं व्याचष्टे -

अन्यथेत्यादिना ।

ईश्वरस्य फलाभावेऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह -

भवति चेति ।

या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः । न च दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः ।

किञ्च गुरुतरायासस्य फलं वाच्यमित्याह -

गुरुतरेति ।

तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह -

यदीयमपीति ।

अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः ।

ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह -

अथेत्यादिना ।

बुद्धेरपराधो विवेकाभावः ॥३२॥