ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥
तुशब्देनाक्षेपं परिहरतियथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमनभिसन्धाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति; यथा चोच्छ्वासप्रश्वासादयोऽनभिसन्धाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव सम्भवन्ति; एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा सम्भवति स्वभावः पर्यनुयोक्तुं शक्यतेयद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति, तथापि परमेश्वरस्य लीलैव केवलेयम् , अपरिमितशक्तित्वात्यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत, तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेःनाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च चेयं परमार्थविषया सृष्टिश्रुतिःअविद्याकल्पितनामरूपव्यवहारगोचरत्वात् , ब्रह्मात्मभावप्रतिपादनपरत्वाच्चइत्येतदपि नैव विस्मर्तव्यम् ॥ ३३ ॥

उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे -

तुशब्देनेति ।

व्यतिरिक्तम् । लीलातिरिक्तम् । क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः ।

कदाचिद्राजादीनां लीलाया अपि किञ्चित्फलं सुखोल्लासादिकं सम्भाव्येत तथापि निःश्वासादौ प्रेक्षावत्प्रवृत्तित्वमस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभिचारस्थलान्तरमाह -

यथा चेति ।

प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वासादिहेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया ।

नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित् कल्प्यताम् , तत्राह -

न हीति ।

आप्तकामत्वव्याघातादित्यर्थः ।

नन्वीश्वरस्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह -

न च स्वभाव इति ।

कालधर्मादिसामाग्र्यां सत्यां सृष्टेरपरिहार्यत्वादित्यर्थः ।

यदुक्तं गुरुतरायासत्वात्फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह -

यद्यपीत्यादिना ।

अल्पप्रवृत्तेरपि फलं वाच्यं लोके तथादर्शनादित्यादितर्कस्यागमबाधमाह -

यदि नामेति ।

सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः ।

स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह -

न चेयमिति ।

न च निष्फलसृष्टिश्रुतीनामानर्थक्यम् , सफलब्रह्मधीशेषत्वेनार्थवत्त्वादित्युक्तं न विस्मर्तव्यमित्यर्थः ॥३३॥